Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका। तथा हि,जीवद्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, देवस्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति, जीवद्रव्यस्य सर्वथैकांतरूपत्वे पुण्योदयवैफल्यप्रसंगात्। सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसंपादनवैयर्थप्रसंगात् परोपकारस्याप्यात्मसुकृतार्थमेव प्रवर्त्तमानत्त्वात् । तस्माज्जीवद्रव्यरूपेणाभेदः । मनुष्यपर्यायदेवपर्यायरूपेण भेद इति प्रतिनियतनयनिरस्तविरोधौ भेदाभेदौ प्रामाणिकावेव ।
तथैवाजीवद्रव्यस्य मृद्र्व्यस्यापि मृदः पिंडाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रूपस्य ध्रुवत्वमिति, सिद्धमुत्पादादियुक्तत्वमजीवस्य । स्वामिसमंतभद्राचार्याभिमतमतानुसारी वामनोपि सदु. पदेशात्प्राक्तनमज्ञानस्वभावं हंतुमुपरितननयमर्थज्ञानस्वभावं स्वीकतुं च यः समर्थ आत्मा स एव शास्त्राधिकारीत्याह "न शास्त्रमसद्व्येष्वर्थवत्' इति । तदेवमनेकांतात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः, सर्वमनेकांतात्मकं, सत्त्वात, यदुक्तसाध्यं न तन्नोक्तसाधनं यथा गगनारावंदमिति । ___ ननु यद्यप्यरविंदं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वहेतुव्यावृत्तिश्चत्तर्हि तदेतदरविंदमाधिकरणविशेषापेक्षया सदसदात्मकमनेकांतमित्यन्वयदृष्टांतत्वं भवतव प्रतिपादितमिति संतोष्टव्यमा. युष्मता । उदाहृतवाक्येनापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपद्यते । सर्व वाक्यं सावधारणमिति न्यायात् । एवं प्रमाणसिद्ध. मनेकांतात्मकं वस्तु ।
__ नया विभज्यंते, ननु कोयं नयो नाम? उच्यते । प्रमाणग्रहीतार्थैकदेशग्राही प्रमातुरभिप्रायविशेषो नयो “नयो ज्ञातुरभिप्रायः" इत्यभिधानात् । स नयः संक्षेपण द्वेधा-द्रव्यार्थिकनयः पर्यायार्थिकनयश्चेति । तत्र द्रव्यार्थिकनयः द्रव्यपर्यायरूपमेकानेकात्मकमनेकांतं

Page Navigation
1 ... 44 45 46 47 48 49 50