Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
म्याथदीपिका ।
४३
भ्यामपरामृष्टं शुद्धवर्तमानकालावच्छिन्नं वस्तुरूपं परामृशति । तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः । एते बयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकांतं प्रमाणविषयं विभज्य व्यवहारयति ।
स्यादेकमेव द्रव्यात्मना वस्तु, नो नाना । स्यान्नानैव पर्यायामनो नैकमिति । तदेतत्प्रतिपादितमाचार्यसमंतभद्रस्वामिभिः " अनेकांतेोऽप्यनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात्ते तदेकांतोर्पितान्नयात् ॥ १ ॥” इति । अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य नियतैकधर्मवद्वस्तुषिषयत्वाच्च नयस्य । यद्येनामार्हतीं सरणिमुहुंध्य सर्वथकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन, कथंचिदपि नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादकमतिवचनमागमाभासः, प्रत्यक्षेण सत्यं भिदा तत्वं भिदेत्यादिनागमेन च बाधितविषयत्वात् ।
सर्वथा भेद एव न कथंचिदप्यभेद इत्यत्राप्येवमेव विज्ञे, सद्रूपेणापि भेदेऽसत : अर्थक्रियाकारित्वासंभवात् । ननु प्रतिनियताभिप्रायगोचरतया पृथगात्मनां परस्परसाहचर्यानपेक्षाणां मिथ्याभूतानामेकत्वादीनां धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्यैवेति चत्तदंगीकुर्महे, परस्परोपकार्योपकारकभावं विना स्वतंत्रतया नैरपेक्ष्या - पेक्षायां पटस्वभावविमुक्तस्य तंतुसमूहस्य शीतनिवारणाद्यर्थक्रियावदेकत्वामेकत्वानामर्थक्रियायां सामर्थ्याभावात्कथांचिन्मिथ्यात्वस्यापि
संभवात् । तदुक्तमीप्तमामांसायां स्वामिसमंतभद्राचार्यैः । "मिथ्यासमूहो मिथ्याचेन्न मिथ्यैकांततास्ति नः । निरपेक्षा नया मिथ्याः सापेक्षा वस्तुतोऽर्थकृत् ॥ १॥ इति । ततो नयप्रमाणाभ्यां वस्तुसिद्धिरिति सिद्धः सिद्धांत: । इति पर्याप्तमागमप्रमाणं ।
इति तृतीयः प्रकाशः । इति श्रीपरमार्हताचार्यधर्मभूषणयतिविरचिता
न्यायदीपिका समाप्ता ।

Page Navigation
1 ... 46 47 48 49 50