Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका। स्तात्पर्यरूप इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात्। तत आप्तवाक्यनिबंधनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव । ___ यथा “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्यादिवाक्यार्थज्ञामं सम्यग्दर्शनादीन्यनेकानि मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायो, नतु मार्गाः, ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वं, न तु प्रत्येकमित्ययमर्थः । मार्ग इत्येकवचनप्रयोगस्तात्पर्यसिद्धः, अयमेव वाक्यार्थः अत्रैवार्थे प्रमाणसाध्यसंशयादिनिवृत्तिः प्रमितिः । ___ कः पुनरयमाप्त इति चेदुच्यते । आप्तः प्रत्यक्षप्रमितसकलार्थवे सति परमहितोपदेशकः । प्रमितेल्यादावेवोच्यमाने श्रुतकेवलिध्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात् । अत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावदुच्यमाने सिद्धेष्वतिव्याप्तिः, अत उक्तं परमेत्यादि । परमं हितं निःश्रेयसम् । तदुपदेश एव अर्हतः प्रामुख्येन प्रवृत्तिः । अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवं विधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आप्तसद्भावे प्रमाणमुपन्यस्तं । नैयायिकाद्यभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः ।
ननु नैयायिकाभिमत आप्तः कथं न सर्वज्ञः ! इति चेदुच्यते तस्य ज्ञामस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं सर्वज्ञोऽहमिति कथं जानीयात् ? एवमनात्मज्ञोयमसर्वज्ञ एव । प्रपंचितं च सुगतादीनामाप्ताभासत्वमाप्तमीमांसाविवरणे श्रीमदाचार्यपादरिति विरम्यते । वाक्यं तु तंत्रां. तरसिद्धमिति नेह लक्ष्यते । __ अथ कोयमर्थो नाम ? उच्यते । अर्थोऽनेकांतः । अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत् । अनेकांत इति लक्षणकथनं । अनेके

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50