Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 42
________________ न्यायदीपिका । ३७ घूमवान्, यथा महानस इति, यत्र यत्र घूमो नास्ति तत्र तत्र अग्निर्नास्ति, यथा महाहृद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनं । ननु किमिदं व्याप्यं व्यापकं नामेति चेदुच्यते । साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्व्याप्यं । विपूर्वादापेः कर्मणि यविधानाद्व्याप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एनामेव व्याप्तिकियां प्रति यत्कर्तृ तद्व्यापकं । व्यापेः कर्तरि ण्वौ सति व्यापकमिति सिद्धेः । एवं सति घूममग्निर्व्याप्रोति, यत्र घूमो वर्तते तत्र नियमेनाग्निर्वर्तते इति यावत्सर्वत्र धूमवति नियमेनाग्निदर्शनात् । धूमस्तु न तथाग्निं व्याप्नोति, तस्यांगारावस्थस्य धूमं विनापि वर्तमानत्वात् । यत्राग्निर्वर्तते तत्र धूमपि नियमेन वर्तते इत्यसंभवात् । , नन्वार्देधनमग्निं व्याप्नोत्येव धूम इति चेदू ओमिति ब्रूमहे । यत्र यत्राविच्छिन्नमूलो घूमस्तत्र तत्राग्निरिति यथा तथैव यत्र यत्रादेंधनोऽग्निस्तत्र तत्र धूम इत्यपि संभवात् । वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव, अनुमातुस्तावन्मात्रापेक्षत्वात् । ततो यो यो धूमवानसावसावग्निमान् यथा महानस इत्येवं सम्यग्दृष्टांतवचनं वक्तव्यं । विपरीतवचनं तु दृष्टांताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टांताभासः । व्यतिरेकव्याप्तौ तु व्यापकस्याग्नेरभावो व्याप्यः, व्याप्यस्य घूमस्याभावो व्यापकः । तथा सति यत्र यत्राग्न्यभावस्तत्र तत्र धूमाभावो, यथा ह्रद इत्येवं वक्तव्यं । विपरीतकथनं त्वसम्यग्वचनत्वादुदाहरणाभास एव । अन्वयव्याप्तौ व्यतिरेकदृष्टांतवचनं, व्यतिरेकव्याप्तावन्वयदृष्टांतवचनं चोदाहरणाभासौ । स्पष्टमुदाहरणं । ननु गर्भस्थः श्यामो मैत्रतनयत्वात्सांप्रतमैत्रतनयवदित्याद्यनुमानप्रयोगे पंचसु मैत्रतनयेष्वन्वयदृष्टांतेषु यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वमित्यन्वयव्याप्तेः, व्यतिरेकदृष्टांतेषु गौरेष्वमैत्रतनयेषु सर्वत्र यत्र यत्र श्यामत्वं नास्ति तत्र तत्र मैत्रतनयत्वं नास्तीति

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50