Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 40
________________ न्यायदीपिका। शकितविपक्षवृत्तिकश्चेति । तत्राद्यो यथा, धूमवानयं प्रदेशोऽग्निमत्त्वादिति । अत्राग्निमत्त्वं हेतुः पक्षीकृते संदिह्यमानधूमे पुरोवर्तिनि प्रदेशे वर्तते, सपक्षे धूमवति महानसे च वर्तते । विपक्षे धूमरहितत्वेन निश्चितेंऽगारावस्थापन्नाग्निमति प्रदेशे वर्तते । इति निश्चयान्निश्चितविपक्षवृत्तिकः। __ द्वितीयो यथा, गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वादितरतनयवदिति । अत्र हि मैत्रतनयत्वं हेतुः पक्षीकृते गर्भस्थे वर्तते, सपक्षे इतरतत्पुत्रे वर्तते, विपक्षे अश्यामे वर्तते । नापीति शंकाया अनिवृत्तेः शंकितविपक्षवृत्तिकः। अपरमपि शंकितविपक्षवृत्तिकस्योदाहरणं । सर्वज्ञो न भवति वक्तृत्वाद्रथ्यापुरुषवदिति। वक्तृत्वस्य हि हेतोः पक्षीकृतेऽर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः संभाव्यते, वक्तृत्वज्ञातृत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तद्वति न वर्तते । न च वचनज्ञानयोलॊके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्टं दृष्टं । ततो ज्ञानोत्कपवति सर्वज्ञे वचनोत्कर्षे कानुपपत्तिरिति । ___ अप्रयोजको हेतुरकिंचित्करः । स द्विविधः, सिद्धसाधनो बाधितविषयश्च। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धतुराकंचित्करः । बाधितविषयस्त्वनेकधा। कश्चित्प्रत्यक्षबाधितविषयः । यथा, अनुष्णोऽनिर्द्रव्यत्वादित्यत्र द्रव्यत्वहेतुः । तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितं । ततः किंचिदपि कर्तुमशक्यत्वादकिंचित्करो द्रव्यत्वहेतुः। कश्चित्पुनरनुमानबाधितावषयः। यथा, अपरिणामी शन्दोऽकृतकत्वादिति । अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वं । कश्चिदागमबाधितविषयः। यथा, प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमः । तेन बाधितवि

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50