Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 38
________________ न्यायदीपिका। वृष्टिर्भविष्यति विशिष्टमेघान्यथानुपपत्तेरिति । अत्र मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षे गमयति । ननु कार्य कारणानुमापकमस्तु कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि संभवति, यथा धूमाभावेऽपि संभवन् वह्निः सुप्रतीतः । अत एव न वहिणूंमं गमयति इति चेत् तन्न, उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्य प्रति हेतुत्वाविरोधात् । कश्चिद्विशेषरूपो, यथा वृक्षोऽयं शिंशपात्वान्यथानुपपत्तेरिति । अत्र शिंशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटते इति । कश्चित्पूर्वचरो, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपतेरित्यत्र कृत्तिकोदयः । कृत्तिकोदयानंतरं मुहूर्ताते नियमेन शकटोदयो जायते, इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चिदुत्तरचरो, यथा उदगाद्भरणी प्राक्कृत्तिकादयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः। कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरो, यथा मातुलिंगं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्ररसः । रसो नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तं गमयति । एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन्साधयंतो धूमादयो हेतवो भावरूपा एवेति विधिसाधकावधिरूपाः। एत एवाविरुद्धोपलब्धय इत्युच्यते । एवं विधिरूपस्य हेतोर्विधिसाधकाख्य आयो भेद उदाहृतः । द्वितीयस्तु निषेधसाधकाख्यः । विरुद्धोपलब्धिरिति तस्यैव नामांतरं । स यथा, नास्य मिथ्यात्वमास्तिक्यान्यथानुपपत्तरित्यत्रास्तिक्यं । आस्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्त्वार्थरुचिलक्षणं । तन्मिथ्यात्ववतो न संभवतीति मिथ्यात्वाभावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकांतात्मकत्वान्यथानुपपत्तरित्यत्रा- .

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50