Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 39
________________ ३४ सनातनजैनग्रंथमालायां नेकांतात्मकत्वम् । अनेकांतात्मकत्वं हि वस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पितसर्वथैकांताभावं साधयत्येव । ननु किमिदमनेकांतात्मकत्वं ! यद्बलाद्वस्तुनि सर्वथैकांताभावः साध्यते इति चेदुच्यते । सर्वस्मिन्मपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकांतात्मकत्वं । एवं विधिरूपो हेतुर्दर्शितः। प्रतिषेधरूपोऽपि हेतुर्द्विविधो, विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात् । अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भावं साधयति इति प्रतिषेधरूपो विधिसाधको हेतुः । द्वितीयो यथा, नास्त्यत्र धूमः अग्न्यनुपलब्धेरिति । अत्र ह्यग्न्य. भावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपप्रतिषधसाधको हेतुः । तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः कतिचिदवांतरभेदा उदाहृताः । विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्याः। इत्थमुक्तलक्षणा हेतवः साध्यं गमयंति, नान्ये, हेत्वाभासत्वात् । के ते हेत्वाभासा इति चेदुच्यन्ते । हेतुलक्षणराहता हेतुवदवभासमाना हेत्वाभासाः। ते चतुर्विधाः-आसिद्धविरुद्धानकांतिकाकिंचित्करभेदात्। तत्रानिश्चयपथप्राप्तोऽसिद्धः। अनिश्चयपथप्राप्तिश्च हेतोःस्वरूपाभावनिश्चयात्तत्स्वरूपसंदेहाच्च । स्वरूपाभावनिश्चय स्वरूपासिद्धः। स्वरूपसंदेहे संदिग्धासिद्धः। आद्यो यथा,परिणामी शब्दश्चाक्षुषत्वादिति । शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपासिद्धश्चाक्षुषत्वहेतुः । द्वितीयो यथा, धूमवाष्पादिविवेकानिश्चये कश्चिदाह अग्निमानयं प्रदेशो धूमवत्त्वादिति । अत्र हि धूमवत्त्वं हेतुः संदिग्धासिद्धस्तत्स्वरूपे संदेहात्। साध्यविपरीतव्याप्तो विरुद्धः । यथाऽपरिणामी शब्दः कृतकत्वात् । कृतकत्वं ह्यपरिणामित्वविरोधिना परिणामित्वेन व्याप्तम् । पक्षसपक्षविपक्षवृत्तिरनैकांतिकः । स द्विविधो, निश्चितविपक्षवृत्तिकः

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50