Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 41
________________ ३६ सनातनजनग्रंथमालायां षयत्वं हेतोः । कश्चित्स्ववचनबाधितविषयः । यथा, मे माता वंध्या पुरुषसंयोगेऽप्यगर्भत्वात् प्रसिद्धवंध्यावत् । एवमादयोऽप्यकिंचित्करविशेषाः स्वयमूह्याः। तदेवं हेतुप्रसंगाद्धेत्वाभासा अवभासिताः। ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्त । तथापि बालबोधार्थमुदाहरणादिकमभ्युपगतमाचार्यैः । उदाहरणं च सम्यग्दृष्टांतवचनं । कोऽयं दृष्टांतो नामेति चेदुच्यते। ___ व्याप्तिसंप्रतिपत्तिप्रदेशो दृष्टांतः। व्याप्तिर्हि साध्ये वयादौ सत्येव साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतता साहचर्यलक्षणा । एनामेव साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदिशति । तस्याः संप्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यं । सैषा यत्र संभवति स संप्रतिपत्तिप्रदेशो महानसादिर्हदादिश्च, तत्रैव घूमादौ सति नियमेनाग्न्यादिरस्त्यग्न्याधभावे नियमेन धूमादिर्नास्तीति संप्रतिपत्तिसंभवात् । तत्र महानसादिरन्वयदृष्टांतः, अत्र साध्यसाधनयोर्भावरूपान्वयसंप्रतिपत्तिसंभवात् । हृदादिस्तु व्यतिरेकदृष्टांतः, अत्र साध्यसाधनयोरभावरूपव्यतिरेकसंप्रतिपत्तिसंभवात् । दृष्टांतौ चैतौ, दृष्टावंतौ धौं साध्यसाधनरूपौ यत्र स दृष्टांत इत्यर्थानुवृत्तेः। उक्तलक्षणस्यास्य दृष्टांतस्य यत्सम्यग्वचनं तदुदाहरणं । न च वचनमात्रमयं दृष्टांत इति किन्तु दृष्टांतत्वेन वचनं । तद्यथा, यो यो धूमवानसावसावग्निमान्, यथा महानस इति । यत्राग्निास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति च । एवंविधेनैव वचनेन दृष्टांतस्य दृष्टांतत्वेन प्रतिपादनसंभवात् । उदाहरणलक्षणरहित उदाहरणवदवभासमान उदाहरणाभासः । उदाहरणलक्षणराहित्यं च द्वेधा संभवति, दृष्टांतस्यासम्यग्वचनेनादृष्टांतस्य सम्यग्वचनेन वा । तत्रायं यथा, यो यो वह्निमान् स स

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50