Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 36
________________ न्यायदीपिका । ३१ थोक्तलक्षणसम्पत्तेरेव सद्धेतुत्वप्रतिपादनात् । विरुद्धादेस्तु तदभावः स्पष्ट एव । नहि विरुद्धस्य व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वाम्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्वं सति योग्यदेशे निश्चयपथप्राप्तिरस्ति स एव सद्धेतु:, अपरस्तदाभास इति स्थितं । किंच गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वात् सम्प्रतिपन्नमैत्रतनयवदित्यत्रापि त्रैरूप्यपांच रूप्ययोर्बोद्धयोगाभिमतयो - रतिव्याप्तेरलक्षणत्वं । तथा हि परिदृश्यमानेषु पंचसु मैत्रपुत्रेषु श्यामतामुपलभ्य तद्गर्भगतमपि विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रतनयाख्यो हेतुराभास इति तावत्प्रसिद्धं । अश्यामत्वस्यापि तत्र संभावितत्वात् । तत्संभावना च श्यामत्वं प्रति मैत्रतनयत्वस्या - न्यथानुपपत्त्यभावात् । तदभावश्च सहक्रमभावनियमाभावात् । यस्य हि धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति, यथा शिंशपात्वस्य वृक्षत्वेन सहभावनियमोऽस्तीति शिशपात्यहेतुवृक्षत्वं गमयति । यस्य येन क्रमभावनियमः स तं गमयति, यथा धूमस्याग्न्यनंतर भावनियमोस्तीति धूमोनिं गमयति । नहि मैत्रतन - यत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा नियमोsस्ति, येन मैत्रतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत् । यद्यपि सम्प्रतिपन्नमैत्रपुत्रेषु मैत्रतनयत्वश्यामत्वयोः सहभावोस्ति, तथापि नासौ नियतः, मैत्रतनयत्वमस्तु श्यामत्वं मास्तु इत्येवंरूपे विपक्षे बाधकाभावात् । विपक्षबाधकप्रमाणबलात्खलु हेतुसाध्ययोर्व्याप्तिनिश्चयः । व्याप्तिनिश्चयतः सहभावः क्रमभावो वा, सहक्रमभावनियमो ऽविनाभाव इति वचनात् । विवादाध्यासितो वृक्षो भवितुमर्हति, शिशपात्वात् । या या शिपा स स वृक्षः, यथा सम्प्रतिपन्न

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50