Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्याय दीपिका ।
२९
प्रतिसाधनप्रनिरुद्धो हेतुः प्रकरणसमः । यथा अनित्यः शब्दो नित्यधर्मरहितत्वादिति । अत्र हि नित्यधर्मरहित्वादिति हेतु: प्रतिसाधन प्रतिरुद्धः । किं तत्प्रतिसाधनमिति चेत्, नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनं । तथा चासत्प्रतिपक्षत्वाभावाच प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः ।
तस्मात्पांच रूप्यं हेतोर्लक्षणमन्यतमाभावे हेत्वाभासत्व प्रसंगादिति सूक्तं । हेतुलक्षणरहिता हेतुवदवभासमानाः खलु हेत्वाभासाः । पंचरूपान्यतमशून्यत्वाद्धेतुलक्षणरहितत्वं कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वमिति वचनादिति । तदेतत्तदपि नैयायिकाभिमननमनुपपन्नं, कृत्तिकोदस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात् पांघरूप्यस्याव्याप्तेः ।
किं च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पांच रूप्याभावेऽपि ममकत्वं तैरेवांगीक्रियते । तथा हि-ते मन्यंते, त्रिविधो हेतुः - अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति । तत्र पंचरूपोपपन्नोऽन्वयव्यतिरेकी, यथा शब्दोऽनित्यो भवितुमर्हति कृतकत्वात् । यद्यत्कृतकं तत्तदनित्यं यथा घटः । यद्यदनित्यं न भवति तत्तत्कृतकं न भवति, यथाऽऽकाशं । तथा चायं कृतकः, तस्मादनित्य एवेति । अत्र शब्दं पक्षीकृत्यानित्य साध्यते, तत्र कृतकत्वं हेतुः । तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादौ वर्तमानत्वात्, विपक्षे गगनादाववर्तमानत्वादन्वयव्यतिरेकित्वं ।
"
पक्षसपक्षवृत्तिर्विपक्षवृत्तिरहितः केवलान्वयी । यथाऽदृष्टादयः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात् यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षं । यथाऽग्न्यादिरिति । अत्र 'अदृष्टादयः' पक्षः, कस्यचित्प्रत्यक्षत्वं साध्यं, अनुमेयत्वं हेतुः, अग्न्याद्यन्वयदृष्टांत: । अनुमेयत्वं हेतुः पक्षी

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50