Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
सनातन जैनग्रंथमालायां
-
"
"
धूमवत्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति पक्षीकृते पर्वते वर्तमानत्वात् । सपक्षे सत्त्वमप्यस्ति सपक्षे महानसे वर्तमानत्वात् । ननु केषुचित्सपक्षेषु घूमवत्त्वं न वर्तते, अंगरावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावादिति चेन्न, सपक्षैकदेशवृत्तेरपि हेतुत्वात् । सपक्षे सर्वत्रैकदेशे वा वृत्तिर्हेतोः सपक्षे सत्त्वमित्युक्तत्वात् । विपक्षाद्व्यावृत्तिरप्यस्ति धूमवत्त्वस्य सर्वमहाहृदादिविपक्षाद्व्यावृत्तेः । अबाधितविषयत्त्रमप्यस्ति घूमवत्त्वस्य हेतोर्यो विषयोऽग्निमत्त्वाख्यं साध्यं तस्य प्रत्यक्षादिप्रमाणाबाधितत्वात् । असत्प्रतिपक्षत्वमप्यस्ति अग्निरहितत्वसाधकसमबलप्रमाणासंभवात् । तथा च पांच रूप्य सम्पत्तिरेव धूमवत्त्वस्य साध्यसाधकत्वे निबंधनं । एवमेव सर्वेषामपि सद्धेतूनां रूपपंचकसम्पत्तिरूहनीया ।
तदन्यतमविरहादेव खलु पंच हेत्वाभासाः, असिद्धविरुद्धानैकांतिककालात्ययापदिष्टप्रकरणसमाख्याः संपन्नाः । तथा हि, अनिश्चितपक्षवृत्तिरसिद्धः । यथा अनित्यः शब्दश्चाक्षुषत्वात् । अत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावणत्वात् शब्दस्य । तथा च पक्षधर्मत्वविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः । यथा नित्यः शब्दः कृतकत्वादिति । कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्याप्तत्वात्, सपक्षे च गगनादावविद्यमानत्वाद्विरुद्धः ।
सव्यभिचारोऽनैकांतिकः । यथा अनित्यः शब्दः, प्रमेयत्वादिति । प्रमेयत्वं हि हेतुः साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सहवृत्तेः । ततो विपक्षाद्व्यावृत्त्यभावादनैकांतिकः । बाधितविषयः कालात्ययापदिष्टः यथाऽग्निरनुष्णः पदार्थत्वादिति । अत्र पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वमाहंकण प्रत्यक्षण बाधिते प्रवर्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50