Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 31
________________ २६ सनातन जैन ग्रंथमालायां मानांगं, इति । अयमर्थः – एतयोः प्रतिज्ञाहेत्वोर्द्वयमेवानुमानस्य परार्थानुमानस्यांगं । वादे इति शेषः । एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं भवति । व्युत्पन्नस्यैव हि वादाधिकारः । प्रतिज्ञाहेतुप्रयोग मात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याप्यभिधाने पौनरुक्त्यप्रसंगात् । स्यादेतत् । प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधेयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात् । तथा च लिंगवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्यः” इति वदन् बौद्धः पशुरात्मनो दुर्विदग्धतामुघोषयति । हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसंदेहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या । तदुक्तं "साध्यसंदेहापनोदार्थं गम्यमानस्यापि पक्षस्य वचनं” इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं नाधिकमिति स्थितं । प्रपंच: पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः । वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पंचेति यथायोग्यं प्रयोगपरिपाटी । तदुक्तं कुमारनंदिभट्टारकैः " प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधत: इति । तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानं । तदुक्तं"परोपदेशसापेक्षं साधनात्साध्यवेदनं । श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥ " ܕܪ तथा च स्वार्थं परार्थं चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेते।रुत्पद्यते । इत्थमन्यथानुपपत्येकलक्षणो हेतुरनुमितिप्रयोजक इति प्रथिते प्यार्हतमते तदेतदवितर्कयान्येऽन्यथाप्याहुः । तत्र तावत्ताथागता:

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50