Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 29
________________ २४ . सनातनजैनग्रंथमालायां परोपदेशवाक्यमेव परार्थानुमानमिति केचित, त एवं प्रष्टव्याः, तत्किं मुख्यानुमानमथवा गौणानुमानमिति ! न तावन्मुख्यानुमानं, वाक्यस्याज्ञानरूपत्वात् । गौणानुमानं तद्वाक्यमिति त्वनुमन्यामहे, तत्कारणे तव्यपदेशोपपत्तेरायुर्वै घृतमित्यादिवत् । तस्यैतस्य परार्थानुमानस्यांगसम्पत्तिः स्वार्थानुमानवत्परार्थानुमानप्रयोजकस्य च वाक्यस्य द्वाववयवौ, प्रतिज्ञा हेतुश्च । __तत्र धर्मधर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा । यथा पर्वतोऽयमग्निमानिति । साध्याविनाभाविसाधनवचनं हेतुः। यथा धूमवत्त्वान्यथानुपपत्तेरिति, तथैव धूमवत्त्वोपपत्तेरिति वा । अनयोर्हेतुप्र. योगयोरुक्तिवैचित्र्यमात्रं । पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरिति । अयमर्थःयूमवत्त्वस्यांग्निमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन प्रतिपादनं । द्वितीये तु तथैव धूमवत्त्वोपपत्तरिति अथमर्थ:-अग्निमत्त्वे सत्येव धूमवत्त्वोपपत्तरिति विधिमुखेन कथन । अर्थस्तु न भिद्यते, उभयत्राप्यविनामाविसाधनाभिधानाविशेषात् । ततस्तयोर्हेतुप्रयोगयोरन्यतर एव वक्तव्य उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवानुमित्युदयात् । नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पंचावयवानाहुः । तथा च ते सूत्रयंति "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । तांश्च ते लक्षणपुरस्सरमुदाहरति । तद्यथा-"पक्षवचनं प्रतिज्ञा, यथा पर्वतोयमग्निमानिति । साधनत्वप्रकाशनार्थ पंचम्यतं लिंगवचनं हेतुः, यथा धूमयत्त्वादिति । व्याप्तिपूर्वकदृष्टांतवचनमुदाहरणं । यथा यो यो घूमवानसावसावाग्निमान्यथा महानसः । इति साधोदाहरणं।यो योऽग्निमान

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50