Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 28
________________ न्यायदीपिका। प्रसिद्धत्वं च धर्मिणः कचित्प्रमाणात्वचिद्विकल्पाकचित्प्रमाणविकल्पाभ्यां । तत्र प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वं । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वं । तवयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वं । तत्र प्रमाणसिद्धो धर्मी यथा घूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः खलु प्रत्यक्षेणानुभूयते। विकल्पसिद्धो यथा, सर्वज्ञः अस्ति सुनिश्चितासंभवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः । अथवा खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणं । सर्वज्ञो ह्यस्तित्वसिद्धः प्राङ्, न प्रत्यक्षादिप्रमाणसिद्धः । अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी। तथा खराविषाणमपि नास्तित्वासिद्धेः प्राग् विकल्पसिद्धं । उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः । स सर्वोऽपि धर्माति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोः साध्यं कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यस्वमिति नियमः, तदुक्तं "विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये" इति । तदेवं परोपदेशानपेक्षिणः साधनाद् दृश्यमानाद्धर्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तं "परोपदेशाभावेऽपि साधनात्साध्यबोधनं । यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते' । इति । परोपदेशमपेक्ष्य साधनात्साध्यविज्ञानं तत्परार्थानुमानं । प्रति. ज्ञाहेतुरूपपरोपदेशवशाच्छ्रोतुरुत्पन्नं साधनात्साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा पर्वतोऽयमग्निमान् भवितुमर्हति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाक्याथं पर्यालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50