Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 26
________________ २१ न्यायदीपिका। ननु भवतां मते साधनमेवानुमाने हेतुन तु साधनज्ञानं, साधनात्साध्यविज्ञानमनुमानमिति वचनादिति चेन्न, साधनादित्यत्र निश्चयपथप्राप्ताद्भूमादेरिति विवक्षणात् । अनिश्चयपथप्राप्तस्य धूमादेः साधनत्वस्यैवाघटनात् । तथा चोक्तं श्लोकवार्तिके "साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः" इति । साधनाज्ज्ञायमानाद्भूमादेः, साध्येऽग्न्यादौ लिंगिनि यद्विज्ञानं तदनुमानं । अज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्तिप्रसंगः । तस्माज्ज्ञायमानलिंगकारणकस्य साध्यज्ञानस्यैव साध्याव्युत्पत्तिनिराकारकत्वेनानुमानत्वं । न तु लिंगपरामर्शादेरिति बुधाः प्रामाणिका विदुरिति वार्तिकार्थः। किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानमिति चेदुच्यते निश्चितसाध्यान्यथानुपपत्तिकं साधनं । यस्य साध्याभावासंभवनियमरूपा व्याप्त्यविनाभावद्यपरपर्याया साध्यान्यथानुपपत्तिस्तख्येिन प्रमाणेन निर्णीता तत्साधनमित्यर्थः । तदुक्तं कुमारनंदिभट्टारकैः “अन्यथानुपपत्त्येकलक्षणं लिंगमभ्यत" इति । ____किं तत्साध्यं यदविनाभावः साधनलक्षणं ! उच्यते । शक्यमभिप्रेतमप्रसिद्ध साध्यं । यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यं, वाद्यभिमतत्वेनाभिप्रेतं, संदेहाद्याक्रांतत्वेनाप्रसिद्धं, तदेव साध्यं । अशक्यस्य साध्यत्वे वह्नयनुष्णत्वादेरपि साध्यत्वप्रसंगात् । प्रसिद्धस्य साध्यत्वे पुनरनुमानवैयर्थ्यात् । तदुक्तं न्यायविनिश्चये "साध्यं शक्यमभिप्रेतमप्रासद्धं ततोऽपरं । साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ इति । अयमर्थः-यच्छक्यमाभिप्रेतमप्रासद्धं तत्साध्यं । ततोऽपरं साध्याभासं । किं तत् ! विरुद्धादि । विरुद्ध प्रत्यक्षादिबाधितं । आदिशब्दा

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50