Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका। "पक्षधर्मत्वादित्रितयलक्षणाल्लिंगादनुमानोत्थानं" इति वर्णयति । तथा हि " पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाघ्यावृत्तिरिति हेतोस्त्रीणि रूपाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, पथा धूमध्वजानुमाने पर्वतः । तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वं । साध्यसजाबीयधर्मा धर्मी सपक्षः । यथा तत्रैव महानसः । तस्मिन्सर्वत्रैकदेशे या वर्तमानत्वं हेतोः सपक्षे सत्त्वं । साध्यविरुद्धधर्मा धर्मी विपक्षः । यथा तत्रैव महाह्रदः, तस्मात्सर्वस्माद् व्यावृत्तत्वं हेतोर्विपक्षाव्यावृत्तिः। तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणं । अन्यतमाभावे हेतोराभासत्वं स्यात्" इति । __ तदसंगतं, कृत्तिकोदयादेर्हेतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि, शकटं धर्मि मुहूर्ताते उदेष्यति कृत्तिकोदयादिति । अत्र हि, शकटः पक्षः, मुहूताते उदयः साध्या, कृत्तिकोदयो हेतुः । नहि कृत्तिकोदयो हेतुः पक्षीकृते शकटे वर्तते । अतो न पक्षधर्मः । तथाप्यन्यथानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमययेव । तस्माद्बौद्धाभिमतं हेतोर्लक्षणमन्याप्तं ।
नैयायिकास्तु पाश्चरूप्यं हेतोळक्षणमाचक्षते । तथा हि, पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाव्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपाणि । तत्राद्यानि त्रीण्युक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबलप्रमाणरहितत्वमबाधितविषयत्वं तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वं । तद्यथा, पर्वतोयमग्निमान् धूमवत्त्वात् । यो यो धूमवान् स सोऽग्निमान्, यथा महानसः।यो योऽग्निमान् न भवति स स धूमवान् न भवति, यथा महाहदः । तथा चायं धूमवांस्तस्मादनिमानेवेति ।
अत्र हि अग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्योधर्मी पक्षः।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50