Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
१९
न्यायदीपिका। अन्यथा गोविलक्षणो महिष इत्यादिविसदृशत्वप्रत्ययस्य इदमस्माद्दरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथकप्रमाणत्वं स्यात्। ततो वैसादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रांतत्वेन प्रत्याभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः । ___ अस्तु प्रत्यभिज्ञानं, कस्तर्हि तर्कः ? व्याप्तिज्ञानं तर्कः । साध्यसाधनयोगम्यगमकभावप्रयाजको व्यभिचारगंधासहिष्णुः संबंधविशेषो व्याप्तिरधिनाभाव इति च व्यपदिश्यते । तत्सामर्थ्यात्खल्वन्यादि धूमादिरेव गमयति नतु घटादिस्तदभावात् । तस्याश्चाविनाभावापरनाम्न्या व्याप्तः प्रमितौ यत्साधकतमं तदिदं तर्काख्यं पृथक प्रमाणमित्यर्थः । तदुक्तं श्लोकवार्तिकभाष्ये “साध्यसाधनसंबंध्यानविवृत्तरूपे हि फले साधकतमस्तर्कः" इति। उह इति तर्कस्यैव व्यपदेशांतरं स च तर्कस्तां व्याप्ति सकलदेशकालोपसंहारेण विषयीकरोति ।
किमस्योदाहरणं ! उच्यते, यत्र यत्र घूमवत्वं तत्र तत्राग्निमत्त्वमिति । अत्र हि धूमे सति भूयोग्न्युपलंभे 'सर्वत्र सर्वदा धूमोऽग्निं न व्यभिचरति' एवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुत्पन्नं तर्काख्यं प्रत्यक्षादेः पृथगेव । प्रत्यक्षस्य सन्निहितदेश एव धूमाग्निसंबंधप्रकाशनान्न व्याप्तिप्रकाशकत्वं । सर्वोपसंहारवती हि व्याप्तिः। ____ ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकरणे सक्तं न भवति तथापि विशिष्ठं प्रत्यक्षं तत्र शक्तमेव । तथा हि महानसादौ तावत्प्रथम धूमाग्न्योर्दर्शनमेकं प्रत्यक्षं । तदनंतरं भूयो भूयःप्रत्यक्षाणि प्रवर्तते । तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणे समर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसंधानरूपप्रत्यभिज्ञानसहकृतः कोपि प्रत्यक्षविशेषो व्याप्तिं गृहाति । तथा च, स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे व्याप्तिविषयीकरणसमर्थे किं तर्का

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50