Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
सनातनजैनग्रंथमालायां प्रसिद्धं । इंद्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानं तस्मात् प्रत्यक्षमिति । तन्न, इंद्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात् । न ह्यविषयप्रवृत्तिरिंद्रयाणां युक्तिमती, चक्षुषा रसादेरपि प्रतीतिप्रसंगात् ।
ननु सत्यमेतदिद्रियाणां वर्तमानदशावगाहित्वमेवेति, तथापि तानि सहकारिसमवधानसामर्थ्याद्दशाद्वयव्यापिन्येकत्वेपि प्रतीतिं जनयंतु, अंजनसंस्कृतं चक्षुरिव व्यवहितेऽर्थे । नहि चक्षुषो व्यवहितार्थप्रत्यायनसामर्थ्यमस्ति, अंजनसंस्कारवशात्तु तथात्वमुपलब्धं । तद्वदेव स्मरणादिसहकृतानींद्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्यापयिष्यं. तौति किं प्रमाणांतरकल्पनाप्रयासेनेति, तदप्यसत् ।
सहकारिसहस्रसमवधानेऽप्यविषये प्रवृत्तेरयोगात् । चक्षुषो हि अंजनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ । अविषयश्च पूर्वोत्तरावस्थाव्यापकमकेत्वमिंद्रियाणां । तस्मात्त. प्रत्यायनाय प्रमाणांतरमन्वेषणीयमेव । सर्वत्रापि विषयविशेषद्वोरण प्रमाणभेदव्यवस्थापनात् । -
किंचास्पष्टेवयं तदेवेदमिति प्रतिप्रत्तिः, तस्मादपि न तस्याः प्रत्यक्षेऽतर्भाव इति । अवश्यं चैतदेवं विज्ञेयं चक्षुरादेरैक्यप्रतातिजननसामर्थ्य नास्तीति । अन्यथा लिंगदर्शनव्याप्तिस्मरणादिसहकृतचक्षुरादिकमेव वयादिलिंगिज्ञानं जनयेदिति नानुमानमपि पृथक प्रमाणं स्यात् । स्वविषयमात्र एव चरितार्थत्वाच्चक्षुरादिकमिंद्रियं न लिंगिनि प्रवर्तितुं प्रगल्भमिति चेत प्रकृतेन किमपराद्धं ? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक्प्रमाणमस्तीति ।
सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयति तदसत, स्मृत्यनुभवपूर्वकसंकलनज्ञानत्वेन प्रत्यभिज्ञानत्वानतिवृत्तेः ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50