Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका |
अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ १ ॥ त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनां । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ २ ॥"
१५
इति कारिकाद्वयेनैतयोरेव परात्माभिमततत्त्वबाधाबाधयोः समर्थनं प्रस्तुत्य भावैकांते इत्युपक्रम्य स्यात्कारः सत्यलांछन इत्यंत आप्तमीमांसासंदर्भ इति कृतं विस्तरेण । तदेवमतींद्रियं केवलज्ञानमर्हत एवेति सिद्धं । तद्वचनप्रामाण्याच्चावधिमनः पर्यययोरतींद्रिययोः सिद्धिरित्यतींद्रियप्रत्यक्षमनवद्यं । ततः स्थितं सांव्यवहारिकं पारमार्थिक चेति द्विविधं प्रत्यक्षमिति ।
इति द्वितीय प्रभास Quसन सम्र
अथ तृतीयेशु
अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते पतिको अत्र परोक्षं लक्ष्यं, अविशदप्रतिभासत्वं लक्षणं । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । वैशद्यमुक्तलक्षणं । त्वताऽन्यदवैशद्यमस्पष्टत्वं । तदप्यनुभवसिद्धमेव ।
या
सामान्यमात्रविषयत्वं परोक्षप्रमाणमिति केचित् तन्न प्रत्यक्षस्येव परोक्षस्यापि सामान्य विशेषात्मकवस्तुविषयत्वेन तस्य लक्षणस्यासंभवात् । तथा हि । घटादिविषयेषु प्रवर्तमानं प्रत्यक्षप्रमाणं तद्गतं सामान्याकारं घटत्वादिकं व्यावृत्ताकारं च व्यक्तिरूपं युगपदे प्रकाशयदुपलब्धं तथा परोक्षमपि । इति न सामान्यमात्रवि - यत्वं परोक्षलक्षणं । अपि त्ववैशद्यमेव ।
सामान्यविशेषयोरेकतरविषयत्वे तु प्रमाणत्वस्यैवानुपपत्तिः, सर्वप्रमाणानां सामान्यविशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात् । तदुक्तं

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50