Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 18
________________ न्यायदीपिका। कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वमिति चेत् रूढित इति ब्रूमः । अथवा अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्न ! तर्हि इंद्रियजन्यमप्रत्यक्षं प्राप्तमिति चत् हंत विस्मरणशीलत्वं वत्सस्य । अवोचाम खल्वोपचारिकं प्रत्यक्षत्वमक्षजज्ञानस्य ततस्तस्याप्रत्यक्षत्वं कामं प्राप्नातु, का नो हानिः ? एतेनामेभ्यः परावृत्तं परोक्षमित्यपि प्रतिविहितं । अवैशद्यस्यैव परोक्षलक्षणत्वात् । स्यादेतत् 'अतींद्रियं प्रत्यक्षमस्तीत्यतिसाहसमसंभावितत्वात् । यद्यसंभावितमपि त गगनकुसुमादिकमपि कल्प्यं स्यात् । न स्याद्गगनकुसुमादिरप्रसिद्धत्वात् अतींद्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात् । तथा हि- केवलज्ञानं तावत्किंचिज्ज्ञानां कपिलसुगतादीनामसंभवदप्यर्हतः संभवत्येव । सर्वज्ञो हि स भगवान् । ननु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते सर्वज्ञोऽर्हन्निति कचिदप्यप्रसिद्धस्य विषयविशेषे व्यवस्थापयितुमशक्तरिति चेन्न, सूक्ष्मांतरितदूरार्थाः कस्यचित्प्रत्यक्षा अनुमेयत्वादग्न्यादिवदित्यनुमानात्सर्वज्ञत्वसिद्धेः । तदुक्तं स्वामिभिर्महाभाष्यस्यादावाप्तमीमांसाप्रस्तावे"सूक्ष्मांतरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः" ॥१॥ सूक्ष्माः स्वभावविप्रकृष्टाः परमाण्वादयः, अंतरिताः कालविप्र. कृष्टा रामादयः, दूरार्थी देशविप्रकृष्टा मेर्वादयः एते स्वभावकालदेशविप्रकृष्टाः पदार्था धर्मित्वन विवक्षितास्तेषां कस्यचित्प्रत्यक्षत्वं साध्यं । इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वं । विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः। अनुमेयत्वादिति हेतुः, अग्न्यादिदृष्टातः । अग्न्यादावनुमेयत्वं कस्यचिप्रत्यक्षत्वेन सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50