Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका ।
११
इति । नायं संशयः, विषयांतरव्युदासेन स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । यद्राजवार्तिकं "अनेकार्थानिश्चितापर्युदासात्मकः संशयः, तद्विपरीतोऽवग्रहः" इति । भाष्यं च "संशयो हि निर्णयविरोधी न त्ववग्रहः" इति ।
अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्न ईहा । यथा पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य इति संशये सति दाक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति । भाषादिविशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । यथा दाक्षिणात्य एवायमिति । कालांतराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा । यद्वशादुत्तरकालेपि स इत्येवं स्मरण जायते ।
ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसंग ः इति चेन्न विषयभेदेनागृहीतग्राहकत्वात् । तथाहि - योऽ • वग्रहस्य विषयो नासावीहायाः । यः पुनरीहाया नायमवायस्य यश्चावायस्य नैष धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत् । तदेतदवग्रहादिचतुष्टयमपि यदेंद्रियेण जन्यते तदेंद्रिय प्रत्यक्षमित्युच्यते यदा पुनरनिंद्रियेण तदानिंद्रियप्रत्यक्षं गीयते ।
इंद्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि पंच । अनिंद्रियं तु मनः । तद्दूयनिमित्तकमिदं लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिकप्रत्यक्षमुच्यते । तदुक्तं "इंद्रियानिंद्रियनिमित्तं देशतः सांव्यवहारिकं ” इदं चामुख्यप्रत्यक्षमुपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव मतिज्ञानत्वात् । कुतो नु खल्वेतन्मतिज्ञानं परोक्षमित्युच्यते " आये परोक्षं" इति सूत्रणात् । आये मतिश्रुते परीक्षमिति हि सूत्रार्थः । उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण ।
सर्वतो विशदं पारमार्थिकं प्रत्यक्षं । यज्ज्ञानं साकल्येन स्पष्टं

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50