Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका। सद्यथा- अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । तत्रालोकस्तावन्न ज्ञानकारणं तदभावेपि नक्तंचराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि चूकादीनां तदनुत्पत्तेः । तद्वदर्थोपि न ज्ञानकारणं, तदभावेपि केशमशकादिज्ञानोत्पत्तेः । तथा च, कुतोर्थजत्वं ज्ञानस्य ? तदुक्तं परीक्षामुखे “नालोको कारणं" इति । प्रामाण्यस्य चाव्यभिचार एव निबंधनं, न त्वर्थजन्यत्वं, स्वसंवेदनस्य विषयाजन्यत्वेपि प्रामाण्याभ्युपगमात । न हि किंचिस्वस्मादेव जायते।
नम्वतजन्यस्यान्यस्य कथं तत्प्रकाशकत्वमिति चेत्,-घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्टा संतोष्टव्यमायुष्मता । अथ कथमयं विषयं प्रति नियमः ? यदुक्तं घटज्ञानस्य घट एव विषयो, न पर इति । अर्थजवं हि विषयं प्रति नियमकारणं, तजन्यत्वात् । यद्विषयमेव चैतदिति । तत्तु भवता नाभ्युपगम्यते । इति चेत् , योग्यतैव विषयं प्रति नियमकारणमिति ब्रूमः । ___ का नाम योग्यतेति, उच्यते-स्वावरणक्षयोपशमः । तदुक्तं"स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति" इति । एतेन तदाकारत्वात्तत्प्रकाशकत्वमित्यपि प्रत्युक्तं, अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् । ततस्तदाकारवत्तजन्यत्वमप्रयोजकं प्रामाण्ये । सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेवाबाधितत्वात् । प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः । तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य सन्निकर्षस्य च योगाभ्युपगतस्याचेतनत्वात्कुतः प्रमितिकरणत्वं कुतस्तरां प्रमाणत्वं कुतस्तमा प्रत्यक्षत्वं !
किं च रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकं । अप्राप्यकारित्वा

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50