Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
सनातन जैनग्रंथमालायां अथ द्वितीयः प्रकाशः ।
अथ प्रमाणविशेषस्वरूप प्रकाशनाय प्रस्तूयते - प्रमाणं द्विविध प्रत्यक्षं परोक्षं चेति ।
तत्र विशदप्रतिभासं नाम प्रत्यक्षं । इह प्रत्यक्षं लक्ष्यं, विशदप्रतिभासत्वं लक्षणं । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः ।
किमिदं विशदप्रतिभासत्वं नाम ? उच्यते, – ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा शब्दानुमानाद्यसंभवि यन्नैर्मल्यमनुभवसिद्धं । दृश्यते खल्वग्निरस्तीत्याप्तवचनाद्भमादिलिंगाच्चोत्पन्नाज्ज्ञानादयमग्निरित्युत्पन्नस्यैद्रियिकस्य ज्ञानस्य विशेषः । स एव नैर्मल्यं वैशद्यं स्पष्टत्वमित्यादिभिः शब्देरभिधीयते । तदुक्तं भगवद्भिरकलंकदेवैर्न्यायविनिश्चये-“प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमंजसा " इति । विवृतं च स्याद्वादविद्यापतिना " निर्मलप्रतिभासत्वमेव स्पष्टत्वं । स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते " इति । तस्मात् सुष्ठकं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति ।
"कल्पनापोढमभ्रांतं प्रत्यक्षं" इति ताथागताः । अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रांतमिति पंदन त्वाभासस्य । तथा च, समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति । तदेतद्बलचेष्टितं । निर्विकल्पकस्य प्रामाण्यमेव दुर्लभं, समारोपाविरोधित्वात् । कुतः प्रत्यक्षत्वं व्यवसायात्मकस्यैव प्रामाण्यव्यवस्थापनात् ।
ननु 'निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात् । तदेव हि परमार्थे सत् स्वलक्षणजन्यं, न तु सविकल्पकं, तस्यापरमार्थभूतसामान्यविषयत्वेनार्थ जत्वाभावात्' इति चेन्न, अर्थस्यालोकवन्ज्ञानकारणत्वानुपपत्तेः ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50