Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 19
________________ सनातनजैन ग्रंथमालायां न चाण्वादावनुमेयत्वमप्रसिद्ध, सर्वेषामप्यनुमेयमात्रे विवादाभावात् । अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्वसिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानं । तत्पुनरतींद्रियमिति कथं ? इत्थ-यदि तज्ज्ञानमैंद्रियिकं स्यादशेषविषयं न स्यात् , इंद्रियाणां स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः सूक्ष्मादीनां च तदयोग्यत्वादिति । तस्मात्सिद्धं तदशेष. विषयं ज्ञानमतींद्रियमेवेति। अस्मिंश्चार्थे सर्वेषां सर्वज्ञवादिनां न विवादः यद्वाह्या अप्याहुः “अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्' इति । नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतींद्रियप्रत्यक्षज्ञानं, तच्चाहत इति कथं ? कस्यचिदिति सर्वनामःमान्यज्ञापकादिति चेत् , सत्यं, प्रकृतानुमानात्सामान्यतः सर्वज्ञत्वसिद्धिः । अर्हत एतदिति पुनरनुमानांतरात् । तथा हि- अर्हन् सर्वज्ञो भवितुमर्हति निर्दोषत्वात् । यस्तु न सर्वज्ञो नासो निर्दोषो, यथा रथ्यापुरुष इति केवलव्यतिरोकिलिंगकमनुमानं । ___ आवरणरागादयो दोषास्तेभ्यो निष्क्रांतत्वं हि निर्दोषत्वं । तत्खल्लु सर्वज्ञमंतरेण नोपपद्यते किंचिज्ज्ञस्यावरणादि दोषरहितत्वविरोधात् । ततो निर्दोषत्वमर्हति विद्यमानं सार्वइयं साधयत्येव । निर्दोषत्वं पुनरहत्परमेष्ठिनि युक्तिशास्त्राविरोधिवाक्त्वासिध्यति । युक्तिशास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्तिसंसारतत्कारणत्वस्यानेकधर्मात्मकचेबनाचेतनात्मकतत्त्वस्य प्रमाणाबाधितत्वात्सुव्यवस्थितमेव । एवमपि सर्वज्ञत्वमर्हत एवेति कथं कपिलादीनामपि संभाव्यमानत्वादिति चेदुच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात् , सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकांतस्य च प्रमाणबाधितत्वात् । तदुक्तं स्वामिभिरेव "स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधि वाक।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50