Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 17
________________ १२ सनातनजैन ग्रंथमालायां तत्पारमार्थिकप्रत्यक्षं मुख्यप्रत्यक्षमिति यावत् । तद् द्विविधं सकलं वि. कलं च । तत्र कतिपयविषयं विकलं । तदपि द्विविधमवधिज्ञानं मनःपर्ययज्ञानं चेति । तत्रावधिज्ञानावरणक्षयोपशमाद्वी-तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानं । मनःपर्ययनानावरणवीर्यातरायक्षयोपशमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानं । मतिज्ञानस्येवावधिमनःपर्यययोरवांतरभेदास्तत्त्वार्थवार्तिकराजवार्तिकश्लोकवार्तिकभाष्याभ्यामवगंतव्याः ।। सर्वद्रव्यपर्यायविषयं सकलं । तच्च घातिसंघातनिरवशेषघातनात्समुन्मीलितं केवलज्ञानमेव “सर्वद्रव्यपर्यायेषु केवलस्य" इत्याज्ञापितत्वात् । तदेवमवधिमनःपर्ययकेवलज्ञानत्रयं सर्वतो वैशद्यात्पारमार्थिकं प्रत्यक्षं । सर्वतो वैशा चात्ममात्रसापेक्षत्वात् । नवस्तु केवलस्य पारमार्थिकत्वमवधिमनःपर्यययोस्तु न युक्तं विकलत्वादिति चेन्न साकल्यवैकल्ययोरत्र विषयौपाधिकत्वात् । तथाहि, सर्वद्रव्यपर्यायविषयमिति केवलं सकलं । अवधिमनः पर्ययौ तु कतिपयविषयत्वाद्विकलौ । नैतावता तयोः पारमार्थिकत्वच्युतिः, केवलवत्तयोरपि वैशा स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव । ___ कश्चिदाह “अक्षं नाम चक्षुरादिकमिंद्रियं तत्प्रतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितं नान्यत्" इति तदप्यसत् । आत्ममात्रसापेक्षाणामवाधिमनःपर्ययकेवलानामिंद्रियनिरपेक्षाणामपि प्रत्यक्षत्वाविरोधात् । स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजकं नेंद्रियजन्यत्वं । अत एव हि मतिश्रुतावविमनःपर्ययकेवलानां ज्ञानत्वन प्रतिपन्नानां मध्ये "आद्ये परोक्षं" "प्रत्यक्षमन्यत्" इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां प्रत्यक्षत्ववाचोयुक्तिः ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50