Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 8
________________ न्यायदीपिका। सम्यग्ज्ञानं प्रमाणं । अत्र प्रमाणं लक्ष्यं । सम्यग्ज्ञानत्वं तस्य लक्षणं। गोरिव सास्नादिमत्त्वं, अग्नेरिवौष्ण्यं । अत्र सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाथ क्रियते । अप्रमाणत्वादेतेषां ज्ञानानामिति । तथा हि विरुद्धानेककोटिस्पर्शि ज्ञानं संशयः । यथाऽयं स्थाणुर्वा पुरुषो वेति । स्थाणुपुरुषसाधारणोर्ध्वतादिदर्शनात्तद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणस्याभावादनेककोट्यवलंबित्वं ज्ञानस्य । विपरीतैककाटिनिश्चयो विपर्ययः । यथा शुक्तिकायामिदं रजतमिति ज्ञानं । अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसाय: । यथा पथि गच्छतस्तृणस्पशादिज्ञानं । इदं हि नानाकोट्यवलंबनाभावान्न संशयः । विपरातैककोटिनिश्चयाभावान्न विपर्ययः । इति पृथगेव । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवंति, सम्यग्ज्ञानानि तु न भवंतीति सम्यक्पदेन व्युदस्यते ॥ ज्ञानपदेन प्रमातुः प्रमितेश्च व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं, न तु ज्ञानत्वं ।। ननु प्रमितिकर्तुः प्रमातुतृित्वमेव न ज्ञानत्वमिति, यद्यपि ज्ञानपदेन प्रमातुर्व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेद् भवेदेवं यदि भावसाधनमिह ज्ञानपदं । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति। "करणाधारे चानट्!' २।३। ११२ इति करणऽप्यनद्प्रत्ययानुशासनात् । भावसाधनं तु ज्ञानपदं प्रमितिमाह । अन्यद्धि भावसाधनात्करणसाधनं पदं । एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्तव्यं, अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याऽघटनात् । न प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धं । तदुक्तं प्रमाणनर्णये "इदमेव हि प्रमाणस्य प्रमा १ जनेंद्रव्याकरणस्येदं सूत्रं ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50