Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका। माणं प्राप्नोति धारावाहिकवदिति चेन्न दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात् । तदुक्तं "दृष्टोऽपि समारोपात्ताहक्” इति । एतेन निर्विकल्पके सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहता । तस्याव्यवसायरूपत्वेन प्रमितिं प्रति करणत्वाभावात् । निराकारस्य दर्शनस्य ज्ञानत्वाभावाच्च । "निराकारं दर्शनं साकारं ज्ञानं" इति प्रवचनात्। तस्मात् प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नातिव्याप्तं नाप्यव्याप्तं लक्ष्ययोः प्रत्यक्षपरोक्षयोाप्यवृत्तेः । नाप्यसंभवि लक्ष्यवृत्तेरबाधितत्वात् ।
किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविषयाव्यभिचारित्वं । तस्योत्पत्तिः कथं ? स्वत एवेति मीमांसकाः। प्रामाण्यस्य स्वत . उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः । तदुक्तं, "ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्वमुत्पत्तौ स्वतस्त्वं" इति ।
न ते मीमांसकाः ज्ञानसामान्यसामग्न्याः संशयादावपि ज्ञानविशेषे सत्त्वात् । वयं तु बेमहे-ज्ञानसामान्यसामग्याः साम्येऽपि संशयादिरप्रमाणं, सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबंधनो न भवति । ततः संशयादौ यथा हेत्वंतरमप्रामाण्ये दोषादिकमंगीक्रियते तथा प्रमाणेऽपि प्रामाण्यनिबंधनमन्यदवश्यमभ्युपगंतव्यं, अन्यथा प्रमाणाप्रमाणविभागानुपपत्तेः ।
एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यं, विपर्ययेऽपि समानत्वात् । शक्यं हि वक्तुमप्रामाण्य स्वतः प्रामाण्यं तु परत इति । तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते । न हि पटसामान्यसामग्री रक्तपटे हेतुस्तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोर्भिन्नकारणप्रभवत्वावश्यंभावात् ।
कथं तस्य ज्ञप्तिः ! अभ्यस्ते विषये स्वतः, अनभ्यस्ते तु परतः। कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्तः ? उच्यते-परिचित

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50