Book Title: Nyayadipika Author(s): Dharmbhushan Yati, Shreelal Shastri Publisher: Pannalal Jain View full book textPage 9
________________ सनातनजैनग्रंथमालायां णत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वं" इति । . नन्वेवमप्यक्षलिंगादावतिव्याप्तिलक्षणस्य तत्रापि प्रमितिरूपं फलं प्रति करणत्वात् । दृश्यते हि-चक्षुषा प्रमीयते, धूमन प्रमीयते, शब्देन प्रमीयते इति व्यवहारः इति चेन्न, अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् । तथा हि प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ करणेन भवता सता तावदज्ञानविरोधिना भवितव्यं । न चाक्षादिकमज्ञानविरोधि, अचेतनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव करणत्वमुचितं । लोकेऽप्यंधकारविघटनाय तद्विरोधी प्रकाश एवोपास्यते, न पुनर्घटादि, तदविरोधित्वात्। किंचास्वसंविदितत्वादक्षादेर्नार्थप्रमितौ साधकतमत्वं स्वावभासनाशक्तस्य परावभासकरवायोगात् । ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीत । ततः स्थितं प्रमितावसाधकतमत्वादकरणमक्षादय इति । चक्षुषा प्रमीयते इत्यादिव्यवहारे पुनरुपचारः शरणं। उपचारप्रवृत्तौ च सहकारित्वं निबंधनं । न हि सहकारित्वेन तत्साधकमिदमिति करणं नाम, साधकविशेष्यस्यातिशयवतः करणत्वात् । तदुक्तं जैनेंद्रे “साधकतम करणः " तस्मान लक्षणस्याक्षादावतिव्याप्तिः । ___ अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात् । न च तासामार्हतमते प्रामाण्याभ्युपगम इति । उच्यते एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाये ज्ञाने प्रवृत्ते तेन घटप्रमिता सिद्धायां पुनर्घटोऽयं घटोयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारावाहिकज्ञानानि । न ह्यषां प्रमिति प्रति साधकतमत्वं प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात् । कथं तत्र लक्षणमतिव्याप्नोति तेषां गृहीतग्राहित्वात् । ननु घटे दृष्टे पुनरन्यव्यासंगे पश्चाद् घट एव दृष्टे पश्चात्तमं ज्ञानमप्रPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50