________________
०
नमः सिद्धेभ्यः । सनातन जैन ग्रंथमाला |
१० श्रीधर्मभूषणयतिविरचिता
न्यायदीपिका |
श्रीवर्धमानमर्हतं नत्वा बालप्रबुद्धये । विरच्यते मित स्पष्ट संदर्भन्यायदीपिका ॥१॥
I
" प्रमाणनयैरधिगमः" इति महाशास्त्रतत्त्वार्थसूत्रं । तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतर्ज, वादितवाधिगोपायनिरूपणपरं । प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यते । तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारांतरासंभवात् । तत एव जीवाद्यधिगमोपायभूती प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपराः प्राक्तनग्रंथाः संयेव, तथापि केचिद्विस्तृता: केचिगंभीरा इति न तत्र बालानामधिकारः । ततस्तेषां सुखेोपायेन प्रमाणनयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकार संपत्तये प्रकरणमिदमारभ्यते । इह हि प्रमाणनयविवेचनमुद्देश लक्षणनिर्देश परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमश
-