________________
सनातनजैनग्रंथमालायां क्यत्वात् । अपरीक्षितस्य विवेचनायोगात् । लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धेः । ___ तत्र विवेक्तव्यनाममात्रकथनमुद्देशः । व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणं । तदाहुर्तिककारपादाः - "परस्परव्यतिकरे सति येनान्यस्वं लक्ष्यते तल्लक्षणं" इति ।
द्विविधं लक्षणमात्मभूतमनात्मभूतं चेति । तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतं । यथाग्नेरौष्ण्यं । औष्ण्यं ह्यग्नेःस्वरूपं तदग्निमबादिभ्यो व्यावर्तयति । तद्विपरीतमनात्मभूतं यथा-दंडः पुरुषस्य । दडिनमानयत्युक्ते हि दंडः पुरुषाननुप्रविष्ट एव पुरुषं व्यावर्तयति । तद्भाष्यं “तत्रात्मभूतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दंडः” इति ।
असाधारणधर्मवचनं लक्षणमिति केचित् । तदनुपपन्न,--
लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसंगात् । दंडादेरतद्धर्मस्यापि लक्षणत्वाच्च । किं च अव्याताभिधानस्य लक्षणाभासस्यापि तथात्वात् ।
तथा हि-त्रयो लक्षणाभासभेदाः । अव्याप्तमतिव्याप्तमसंभवि चेति । तत्र लक्ष्यैकदेशवृत्त्यव्याप्तं, यथा-गोः शावलेयत्वं । लक्ष्यालक्ष्यवृत्त्यतिव्याप्तं, यथा-तस्यैव पशुत्वं । बाधितलक्ष्यवृत्त्यसंभवि यथा नरस्य विषाणित्वं । अत्र हि लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्यासाधारणधर्मत्वमस्ति न तु लक्ष्यभूतगोमात्रव्यावर्तकत्वं । तस्माद्यथोतमेव लक्षणं । तस्य कथनं लक्षणनिर्देशः ॥ .
विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवतमाना विचारः परीक्षा । सा खल्वेवं चेदेवं स्यादेवं चेदेवं स्यादित्येवं प्रवर्तते । प्रमाणनयोरप्युदशः सूत्र एव कृतः । लक्षणमिदानी निर्देष्टव्यं परीक्षा च यथोचित्यं भविष्यति । उद्देशानुसारेण लक्षणकथनमिति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्क्षणमनुशिष्यते,