Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ १०. वृत्ति व्यवसायं वा प्राप्तुं विश्वविद्यालयस्य स्नातकादीनां कियती योग्यता ? मूल्यं च कियत् ? देशाद् बहिश्च वृत्त्यर्जने कियद् वा साफल्यम् ? ११. नूतन ज्ञानप्रसारे, नूतनविचारप्रसारे च विश्वविद्यालयस्य प्रदानं किम् ? कियत् च ? १२. स्नातकपदादारभ्य विद्यावाचस्पतिपदं (Ph.D.) यावत् प्राप्तानां विद्यार्थिनां सङ्ख्या । अथैतेषां मानदण्डानामपेक्षया यदा वयं भारतीयविश्वविद्यालयानां मूल्याङ्कनं कुर्याम तदाऽऽपातत एव प्रतीयते यदस्माकं विश्वविद्यालयाः सर्वथा एता अपेक्षा न पूरयन्ति । वयं कियता प्रमाणेनाऽत्र निष्फलाः स्म इति ज्ञातुं Times Higher Education संस्थायाः २०१४-२०१५तमवर्षस्य सर्वेक्षणं विलोकनीयम् । तदनुसारं हि विश्वविद्यालयानां प्रथमे शतचतुष्टये भारतस्य Indian Institute of Science - इत्यस्य २७९तमं स्थानं, पञ्जाबविश्वविद्यालयस्य २८१तमं स्थानं, IIT - मुम्बई - इत्यस्य ३६२तमं स्थानं, रूडकीविश्वविद्यालयस्य च ३६३तमं स्थान प्राप्तमस्ति । ध्यानार्हं त्वत्रैतत् यत् ताइवान-सदृशस्याऽतिलघुदेशस्य विश्वविद्यालयो जागतिकविश्वविद्यालयानां प्रथमेषु दशसु क्रमाङ्केष्वन्तर्भवति । अस्याः परिस्थितेर्बहूनि कारणानि सन्ति । तेषां चर्चा नाऽत्र प्रस्तुता । किन्तु एतत्तु वक्तव्यमेव यद् प्रचुरधनव्ययेनाऽपि यच्छिक्षणं प्राप्तव्यं, या गुणवत्ता वर्धनीया यश्च स्तरोऽपेक्षितस्तत् सर्वं सर्वथा न भवति । विदेशीयविश्वविद्यालयेष्वपि धनव्ययस्तु भवत्येव, किन्तु तत्र पूर्णा कार्यनिष्ठा, शिक्षणं प्रति हार्दिकी श्रद्धा समर्पितता च भवति । फलतश्च सर्वदोत्तमः परिणामः सर्वासु च विद्यास्वपेक्षितं साफल्यं प्राप्यते । अस्माकं देशे तु प्रायशः ८०-८५ प्रतिशतं शिक्षणकाराणां धनार्जन एव रुचिः, सहैव शिक्षणं प्रति निष्ठाभावः समर्पणशून्यता श्रद्धाराहित्यं च । (कृपयाऽन्यथा न ग्रहीतव्यं, वस्तुस्थितिस्त्वेतादृश्येव ।) एवं स्थिते कथमस्मद्देशे शिक्षणक्षेत्रे गुणवत्ता वर्धेत ? उत्तमः स्तरश्च प्राप्येत ? यत् किमपि सुन्दरं वैशिष्ट्ययुतं च दृश्यते तत् केवलं १५-२० प्रतिशतं सन्निष्ठं शिक्षणकाराणामेव परिश्रमस्य फलम् । अस्या दुरवस्थाया निवारणं न सुकरम् । एतन्मूलानि ह्यतीवाऽगाधानि । तान्युच्छेत्तुं प्रथम गभीरं चिन्तनं ततः कठोरः परिश्रमश्चाऽऽवश्यकः । तदाऽस्य देशस्य पूर्णो विकासो भविता । तद्दिशि पदमप्यग्रेसरीभवेम इत्याशास्महे ।। कीर्तित्रयी मृगशिरःशुक्ला प्रतिपत्, २०७२ शेरिसातीर्थम् * * *

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 110