Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ महात्मन्, नन्दनवनकल्पतरोः चतुस्त्रिंशी शाखा पठिता । तस्याः वाचनेन अत्यन्तं मुदितोऽस्मि । प्रास्ताविकें विदेशीयमहाविद्यालयेषु वर्तमानस्य, सामूहिकरूपेण छात्राणां गुणनिर्णयस्य स्थाने व्यक्तिगतरूपेण मूल्यनिर्णयनम् अधिकृत्य यदुक्तं तत्तु चिन्तनीय एव विषयः । पद्यरचनासु दृश्यमाना विविधाः शैलीविशेषा अत्यन्तं मनोज्ञाः । गद्यविभागे तु कलानाथशास्त्रिणः 'नामकरणेऽपि नो विदेशदासता' इति लेख: चिन्तोद्दीपक आसीत् । रूपनारायणपाण्डेयस्य शब्दप्रभेदसमीक्षा च विज्ञानप्रदाऽऽआसीत् । त्रयश्चत्वारिंशतमे पृष्ठे षष्ठखण्डिकायाः प्रथमवाक्ये 'अष्टादशमे भवे' इति प्रयोगो दृष्टः । अष्टादशे भवे इति चेत् वरमभविष्यत् । - इति भवदीयः विनीतवैधेयः एम. ए. रवीन्द्रन् पालक्काडु - 678012 * * *

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 110