________________
महात्मन्,
नन्दनवनकल्पतरोः चतुस्त्रिंशी शाखा पठिता । तस्याः वाचनेन अत्यन्तं मुदितोऽस्मि । प्रास्ताविकें विदेशीयमहाविद्यालयेषु वर्तमानस्य, सामूहिकरूपेण छात्राणां गुणनिर्णयस्य स्थाने व्यक्तिगतरूपेण मूल्यनिर्णयनम् अधिकृत्य यदुक्तं तत्तु चिन्तनीय एव विषयः । पद्यरचनासु दृश्यमाना विविधाः शैलीविशेषा अत्यन्तं मनोज्ञाः । गद्यविभागे तु कलानाथशास्त्रिणः 'नामकरणेऽपि नो विदेशदासता' इति लेख: चिन्तोद्दीपक आसीत् । रूपनारायणपाण्डेयस्य शब्दप्रभेदसमीक्षा च विज्ञानप्रदाऽऽआसीत् । त्रयश्चत्वारिंशतमे पृष्ठे षष्ठखण्डिकायाः प्रथमवाक्ये 'अष्टादशमे भवे' इति प्रयोगो दृष्टः । अष्टादशे भवे इति चेत् वरमभविष्यत् ।
- इति भवदीयः विनीतवैधेयः
एम. ए. रवीन्द्रन् पालक्काडु - 678012
*
*
*