SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ सद्भाव - प्रतिभावः सम्पूज्या: आचार्यचरणाः पूज्या च कीर्तित्रयी, सादरं प्रणतयः । भद्रा समीचीना चिन्ता छात्राणां विषये कृता । धर्माधारत्वमप्यत्र चिन्त्यं सच्छात्रहैतुकम् ॥ ईश्वरेण वरदानतः क्षुधा दत्ता । [Appetite is blessing from the Lord] क्षुधां विना वयं भोजनम् । क्षुधया विना भुक्तं, विकारमेव जनयति । एवमेव, विना जिज्ञासां, दत्तं ज्ञानमपि निरर्थकं, विकारकरं च भवति । छात्राणां जिज्ञासा जागृता स्यादित्यर्थं प्रयतितव्यम् । एवं कृते, छात्रः स्वयमेव प्रवृत्तो भविष्यति विशेषं ज्ञातुम् । शालामहाशालासु, गृहेऽपि, ज्ञानवृद्धैः, स्वकीयेन विवेकेन प्रेरयितव्यश्छात्रः । तस्य रुच्यनुसारं स प्रोत्साहियतव्यश्च । मातृवद् व्यवहर्तव्यं तत्र । बलप्रयोगः [Compulsion] नैव कार्यम् । जाते बलप्रयोगे, जायते अरुचिः प्रिये विषयेऽपि ॥ अपरं च, धर्मस्याऽऽधारः छात्राणां कृते सर्वत्राऽपि भवेदिति प्राथम्यम् । धर्मकेन्द्राच्च्युतः कोऽपि इतस्ततः प्रधावति । अशक्या स्वस्थता तस्य, सिद्धिश्शंकास्पदा भवेत् ॥ धर्मार्थकाममोक्षाणां विषये, शास्त्रकारैः धर्म एव प्रथमं स्मृतः । धर्मानुरूपा धनप्राप्तिः धर्मानुरूप: कामः, ततश्च मोक्षं प्रति गतिः, इति स्वाभाविकी प्रक्रिया, अधुना, परं त्यक्तेति प्रतिभाति समाजे । येन केन प्रकारेण, अधर्मेण, वञ्चनादिकं कृत्वाऽपि, धनोपार्जनं कामसेवनं च क्रियते । दुर्भाग्येन, प्रचारमाध्यमैः ब्रह्मचर्यादीनां मर्यादालोपः शिक्ष्यते । 'मरणं बिन्दुपातेन जीवनं बिन्दुधारणाद्' इति मूलभूता धर्माधृता अवधारणा लुप्ता भवति । विकारविलासौ अनुमोद्यते । छात्रस्य स्वकीयं वीर्य (तेजः) एव अपचीयते, विनाशमेति । का कथा तत्र 'तेजस्विनावधीतमस्तु' इति भावनायाः ? । प्रवृद्धैः आचार्यवयः, स्व-सम्प्रदायरतेषु परिवारेषु एतदर्थं बीजानि उप्यन्ते चेत्, तर्हि, धर्माधारण, रुच्यनुसारं शिक्षणं, राष्ट्रोत्कर्षार्थं सर्वहितार्थं च भवेदिति सादरं विनिवेद्यते ॥ अस्तु श्रीः ॥ - डो. वासुदेवः वि. पाठकः 'वागर्थ' अहमदाबाद-१५ * * *
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy