________________
प्रास्ताविकम्.....
पूर्वतनशाखायां जर्मनी-प्रभृतिदेशेषु शिक्षणं विश्वविद्यालयाश्च कीदृशा भवन्ति तच्चिन्तितमासीत् । अद्याऽस्मद्विश्वविद्यालयानां का स्थितिरिति चिन्तनीयमस्ति ।
ई. २००३ तमवर्षादारभ्य जागतिकस्तरे विश्वविद्यालयानां सर्वाङ्गीणोपलब्धीर्लक्ष्यीकृत्य तेषामग्रताक्रमगणना प्रारब्धाऽस्ति । अग्रताक्रमगणनं कुर्वतीषु नवसु संस्थासु Times higher educationen, Quacquareli Symonds-heen Academic ranking / Shanghai ranking - चेति तिस्रः संस्थाः सर्वत्राऽपि विशेषतया स्वीकृताः सन्ति । एताभिश्च संस्थाभिर्विश्वविद्यालयानां कृतेऽग्रताक्रमदानार्थं केचन विशिष्टा मानदण्डा निश्चिताः सन्ति । तेषु प्रमुखा मानदण्डा एते -
१. पूर्णतयाऽध्ययनाध्यापनपर्यावरणं मौलिक्यः सर्वा सुविधाश्च ।
२. विश्वविद्यालये जायमानानि युगप्रभावकानि गुणात्मकानि च संशोधनानि तत्फलत्वेन च विश्वविद्यालयस्य प्रसिद्धिर्धनलाभश्च ।
३. तदीयाध्यापकानां कियन्ति वा संशोधनपत्राणि विश्वविश्रुतसामयिकेषु Nature-Lifeप्रभृतिपत्रिकासु च प्रकाशितानि ? तेषां च सहलेखकत्वेन कश्चन विदेशीयविश्वविद्यालयसत्कः प्रतिष्ठितो विद्वान् अस्ति न वा ? - इत्यादि चिन्त्यते । सहैव विश्वविद्यालयेन विगतेषु पञ्चसु वर्षेषु प्रतिवर्ष न्यूनातिन्यूनं यदि द्विशतं संशोधनपत्राणि न प्रकाशितानि तदा स क्रमगणनायां न परिगृह्यते ।
___४. एतानि च संशोधनपत्राणि (Research papers) तेषु प्रतिष्ठितेषु सामयिकेषु प्रकाशितानि स्युर्यानि सामयिकानि Science Citation Index / Social Science Citation Index - द्वारा मान्यानि स्युः ।
५. विश्वविद्यालयाना-मुद्योगालयानां च मध्ये सम्यक् सम्बन्धाः स्युः । विश्वविद्यालया उद्योगगृहेभ्यो मार्गदर्शनं कुर्युः, ततश्च धनस्याऽऽयोऽपि भवेत् ।
६. विश्वविद्यालयस्य जागतिकस्तरे कीदृशी प्रसिद्धिः ? - ७. तत्र विश्वप्रसिद्धा प्रतिभासम्पन्नाश्चाऽध्यापकाः सन्ति वा ? विदेशीयाश्च विद्यार्थिनो ज्ञानर्जनार्थमागच्छन्ति वा ?
८. अध्यापकैविद्यार्थिभिर्वा नोबेल-प्रमुखानि प्रतिष्ठितानि पारितोषिकाणि प्राप्तानि वा ? ९. विद्यार्थिनामध्यापकानां च गुणोत्तरः कियान् ?
5