Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जन्ममहोत्सवः वि.सं. १९२९ तमवर्षस्य प्रथमं मङ्गलप्रभातमुद्गतमासीत् । ब्राह्ममुहूर्तसमय आसीत् । नूतनवर्षमिदं सर्वेषां कृते मङ्गलमयं स्यादित्युदाराशया बालकाः “सर्वरसं गृह्णन्तु, सर्वरसं गृह्णन्तु' इत्युद्धोषणं कुर्वन्तो गृहाद् गृहं परिभ्रमन्त आसन् । तच्च प्रदाय सर्वेषां मङ्गलशकुनानि सम्पादयन्त आसन् । समग्रेऽपि वातावरणे नूतनवर्षस्योल्लासः प्रसृत आसीत् ।
__ एतादृशि मङ्गलमये समये श्रीलक्ष्मीचन्दमहोदयस्य भार्या श्रीमती दीवालिबाई पुत्ररत्नमेकं प्रसूतवती । पुत्रस्याऽस्य तेजस्वि ललाटमुज्ज्वलं भाविकालं सूचयति स्म । एतादृशेन च पुत्रेण जनन्यपि स्वकीयस्य जननीपदस्य सार्थक्यमनुभवन्त्यासीत् । पुत्रजन्मनो वृत्तान्तं सम्प्राप्य सर्वेऽपि स्वजन-प्रातिवेशिकजनाः सत्वरं वर्धापनार्थमागताः । तेभ्यश्च गुड-धान्याकं वितीर्य पुत्रजन्मनो हर्षो व्यक्तीकृतः कुटुम्बेन ।
पश्चाच्च श्रीलक्ष्मीचन्दमहोदयो मनुष्यसुलभया जिज्ञासया ज्योतिषिकस्य श्रीविष्णुभट्टमहोदयस्याऽन्तिकं गतवान् । तत्र च पुत्रस्य जन्मसमयादिकं सर्वमपि निवेदितवान् । सोऽपि ज्योतिषिकस्तदनुसारं जन्मपत्रं सज्जीकृत्य तत्रत्यां ग्रहादिस्थितिमवलोकयन् स्थितः । अवलोकयतस्तस्याऽऽश्चर्यं वर्धितम् । तस्य परिवर्तमानान् मुखभावान् दृष्ट्वा लक्ष्मीचन्दमहोदयः पृष्टवान् - 'भोः ! किमेतत् सूचयति ?' । ज्योतिषिक उक्तवान् - "भ्रातर् ! नैष कश्चित् सामान्यो बालः । एष हि कश्चिन्महापुरुषो भविष्यति । सांसारिकत्वेनाऽपि यद्येष स्थास्यति तदाऽपि नृपतुल्योऽयं भविष्यति । किन्तु 'कुम्भलग्नीयोऽयं जातकः, अतो 'धर्मधुरन्धरः कोऽप्यनन्यसदृशो महापुरुषो भविष्यति' इति सूचयति ।" ।
एतच्छ्रुत्वा लक्ष्मीचन्दमहोदयोऽपि प्रमोदभाक् सन् पण्डितवर्याय तस्मै दक्षिणां दत्त्वा गृहं प्रत्यागतवान् ।
१. सबरस इति लोकभाषायां, लवणमित्यर्थः । २. कुम्भलग्न का पूत, बडा अवधूत, रातदिन करे भजन ! - इत्यक्तिः ।
___ चित्रमयो विजयनेमिसूरिः ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202