Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 162
________________ शास्त्रप्रेमिभिः साहित्यरसिकैश्चाऽन्यैर्मुनिभिरस्यां दिशि प्रशंसनीयं कार्यं कृतम् । एवं सम्यज्ज्ञानस्य सुरक्षा प्रसिद्धिश्च कृता । तदर्थं श्रीजैनतत्त्वविवेचकसभा - श्रीजैनग्रन्थप्रकाशकसभा - इत्यादीनां बह्वीनां संस्थानां निर्माणं कारितम् । अतोऽत्राऽस्य नेमिसूरीशस्य प्रतिकृतिः स्थापिता," इति । जैनसङ्घे वर्तमानसाधुसमुदाये च ' नेमिसूरीशस्तीर्थोद्धारक' इति ख्यातिः प्रवर्तते । किन्त्वेतेन पूज्येन तीर्थोद्धारेण सह ग्रन्थसर्जनं, ग्रन्थसंरक्षणं, ग्रन्थसंशोधनं चाऽपि कृतमासीत् । पूज्येन न्यायसिन्धुः सप्तभङ्गीप्रभा हेमप्रभाव्याकरणं चेत्यादयो बहवो जैनन्यायकलिता व्याकरणविषयकाश्चाऽनेके ग्रन्था रचिताः । तद्ग्रन्थपठनेनैव ज्ञायते यत्तस्य पूज्यस्य मतिनैपुण्यं काव्यशक्तिः साहित्य-छन्दोऽलङ्कारबोधो न्यायवैशारद्यं षड्दर्शनबोधो जैनदर्शनसिद्धान्तानां सूक्ष्मबोधश्च कियान् कीदृशश्चाऽऽसीदिति । वर्तमानकाले तु संशोधनविषयकाणां ग्रन्थानां सर्वाऽपि सामग्री सुलभा परिस्थितिश्चाऽपि सानुकूलाऽस्ति । तत्काले तु तादृशी सामग्री दुर्लभा परिस्थितिश्चाऽपि प्रतिकूलाऽऽसीत्। तादृशे काले पूज्येनैतेनाऽऽकरग्रन्थानां सम्पादनं सर्जनं च विधायैका नूत्ना दृष्टिरुद्धाटिता । तथाऽप्यहं 'लघुहरिभद्रो वा - लघुयशोविजयो' वेति नोद्घोषणा कृता, किन्तु 'तेषां पूज्यानां चरणरजोनिभ एवाऽस्मि' इति मन्यते स्म स सूरीशः । एवं पूज्यपादेन शासनोपयोगीनि बहूनि कार्याणि कृतानि । तेन यद्यत्कृतं तस्य कल्पनाऽप्यशक्याऽस्ति । एतेन पूज्येन कृतानि कार्याणि निरीक्ष्य मनसि विकल्पो भवति यद् - एतादृशं कार्यं तु बहवो जनाः सम्मील्याऽपि कर्तुं न शक्नुवन्ति, अतोऽस्य पूज्यपादस्य जीवनकथा दन्तकथैव मंस्यते । तस्मिन् काले जिनशासने बहवः समर्थाः सूरीश्वरा आसन् । तह्यपि कथं शासनसम्राडेव सङ्घमान्य आसीत् ? इति प्रश्नः सर्वेषामपि जनानां चित्ते समुद्भवति । तदा तस्य समाधानमेतदेव यत् स ज्ञानविशुद्धसंयमाद्याचारादिगुणैः सह नेतृत्वयोग्यगुणानामपि धारको दीर्घद्रष्टा निर्भयो गीतार्थो देशकालोचितनिर्णयकरणेऽपि समर्थश्चाऽऽसीत् । यथा केवलं धनेन बलेन ज्ञानेन च राजपदं प्राप्तुं न शक्यं, किन्तु समयोचितनिर्णयशक्तिः प्रजास्वैक्योत्पादनशक्तिश्चेत्यादिगुणानां धारक एव राज्यधुरं वोढुं शक्तो भवति तथैव जिनशासनधूर्वहने स एव समर्थो य उपरि वर्णितानां गुणानां धारको भवेत् । केवलं पुस्तकस्य पठनेन पाठनेन सर्जनेन च, प्रतिष्ठादिमहोत्सवकरणेन, बहुशिष्यजनानां स्वामित्वेन, कोट्यधिपतीनां भक्तानां गुरुत्वेन वा तादृशो भवितुं नाऽर्हति । अन्ते, सूरिपदशताब्द्यवसरे गुरुचरणयोरिदमेव प्रार्थनं यद् भवत्कृपया निर्गुणिनो मन्दधियश्च मे मानसे विवेकगुणः प्रादुर्भवेदिति । Jain Education International For Private & Personal Use Only शासनसम्राट् १५१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202