Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 160
________________ मनोभावविषये च चिन्तयामि तदा तदा तं प्रति परमोऽहोभावो जागर्ति । यतो न तेन कदाऽपि शासनस्य खण्डनं विभाजनं च यथा स्यात् तथा प्रवृत्तिः कृता, किन्तु जिनशासनस्य हितार्थमैक्या) चैव प्रयत्नो विहितः । यदा शासनसम्बन्धिनोऽन्यगच्छसम्बन्धिनस्तीर्थसम्बन्धिनश्च प्रश्ना उद्भवेयुस्तदा निजस्वार्थं स्वसमुदायं स्वप्रसिद्धिं च गौणं कृत्वा केवलं जिनशासनमेव प्रधानीकृत्य समादधाति स्म स पूज्यः । शासनरक्षार्थं स्वहानिमप्यवगणयति स्म, यत स दूरदशितया चिन्तयति, यद्यद्यहं मे आग्रहं न त्यजेयं तर्हि समाजे परस्परं वैमनस्यं क्लेशः सङ्घर्षश्चोत्पद्येरन्, समाधानं च न भवेत्, अन्ततो गत्वा समाजे विभागः स्यात् । परम्परया शासनेऽराजकता मतभेदो विसंवादिता च प्रवर्तेत, इति । एवं तेन शत्रुञ्जय-गिरनार-समेतशिखर-इत्यादितीर्थेषु, सङ्केषु, गच्छे, समाजे च प्रवर्तमानानां क्लेशादीनां दूरीकरणे साफल्यमपि प्राप्तम् । तथाऽपि 'शासनस्य यत्कार्यं तदेव मे कार्य, शासनस्य शोभायामेव मे शोभा' इति मत्वा न कुत्रचिदपि कदाचिदपि च प्रसिद्धिः कृता । एवं न च प्रसिद्ध्यर्थं दम्भ-प्रपञ्चादिकस्याऽऽश्रयोऽपि कृतः । ___ 'प्रसिद्ध्यर्थं प्रशंसार्थं च दम्भप्रपञ्चादिकमावश्यकमस्ति' इति मन्यन्ते केचिज्जनाः । सामान्यतोऽधुना ये ये लोकप्रियाः प्रसिद्धाश्च महाभागा दृश्यन्ते, तेषां सर्वासामपि प्रवृत्तीनां सूक्ष्मदृष्ट्या निरीक्षणं क्रियते तदा ज्ञायते यत् तैः कीदृशं कीदृशं मायाप्रपञ्चादिकमाचरितम् । ते बहिस्तु सरला दृश्यन्ते किन्त्वन्तस्तु मलिनवृत्तयो दुराशयाश्च भवन्ति । एष पूज्यपादो बहिरन्तरं वोभयतोऽपि सरल आसीत् । तत एव न कदाऽपि तेन प्रसिद्ध्यर्थं प्रपञ्चादिकं कृतम् । केवलं स्वकीयेन सत्त्वेन सामर्थ्येन तपसा तथा नैष्ठिकब्रह्मचर्येणैव सर्वत्र स्वकीयं प्रभुत्वं स्थापितम् । ___ एष पूज्यपादस्तु परमनिरीह आसीत् । स न केवलं स्वसमुदाये एव अपि तु समस्तेऽपि तपोगच्छेऽन्यगच्छेषु चाऽपि मान्य आसीत् । तत्कालीनाः समर्थाः सर्वेऽपि सूरीश्वराः पूज्यस्य वचनं प्रमाणीकृत्याऽङ्गीकुर्वन्ति स्म । एवं 'आणंदजी कल्याणजी पेढी' इति संस्थायाः सर्वेऽप्यग्रण्यः श्रीमन्तश्च पूज्यस्य भक्ता आसन् । तथाऽपि तीर्थानां विभिन्नानां संस्थानां च व्यवस्था मदाज्ञानुसारमेव करणीया, इति न कथितं लिखितं च कुत्राऽपि । कुत्रचिद् नोल्लेखोऽपि प्राप्यते श्रूयते चाऽपि । भो ! वस्तुतो यो महानस्ति स न कदाऽपि महत्ता प्रस्थापयितुं प्रयतते, यश्च प्रयतते स न महान् भवति । एवं वर्तमानकाले प्रवर्तमानरीत्यनुसारं स्वमहत्त्वं स्थापयितुमन्येषां महत्ता न दूषिता चाऽपि पूज्येन । भोः ! किं कथयेयम् । तस्मिन् काले समाजे केचिज्जना एतादृशा आसन्, येषां हृदयं महत्त्वाकाङ्क्षा-माया-दम्भेादिविषेण बाढं लिप्तमासीत् । ये भक्ष्यार्थं श्वेव निरन्तरं प्रसिद्ध्यर्थमितस्ततोऽटन्ति स्म । ते जना अस्य पूज्यस्यैतादृशी महत्तां प्रतिष्ठां च सोढुं न शक्नुवन्ति स्म । ततस्ते जनाः प्रतिदिनं पूज्यपादं प्रति मिथ्याक्षेपान् कुर्वन्ति स्म । तथाऽपि पूज्येन कदाऽपि तान् प्रति दुर्भावलेशोऽपि न कृतः । अहो ! यदा ते एव जना सङ्कटे पतितास्तदा तेषां रक्षणं पूज्येनैतेनैव शासनसम्राट् १४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202