Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 166
________________ यत् - 'आङ्ग्लो मुख्याधिकारी भवद्दर्शनार्थमागन्ता । स आसन्द एवोपवेक्ष्यत्यतो भवद्भिरपि भूमौ नोपवेष्टव्यमिति । तदा गुरुभिरुक्तं - 'भो ! अहं तु सदाऽपि भूमावेवोपविशामि । मत्पार्श्वेऽपि च ये केचिदागच्छन्ति तेऽपि सर्वे भूमावेवोपविशन्ति । तथा च कस्यचिदधिकारिणः कृतेऽहं ममाऽऽचारान् नैव त्यक्ष्यामि । एवं सति यदि तस्याऽऽगमनेच्छा स्यात् तर्त्यागच्छेत् सः, अन्यथा ने 'ति । एतज्ज्ञात्वा प्रभावितेन तेनाऽऽङ्ग्लाधिकारिणा सा मर्यादा स्वीकृता । स नियि गुरुभिराश्रिते धर्मस्थाने आगतः । अन्तः प्रविशता तेन स्वीयं शिरस्त्रं (Hat) तु निष्कासितं, किन्तु पादत्रे नैवाऽपसारिते । एतद् दृष्ट्वा गुरुभिरग्रण्ये जैन श्रावकाय ते अपसारयितुमादिष्टम् । तदा तेनाऽधिकारिणा प्रतिकृतं यत्- 'यदि सपादत्र एवाऽहमन्तरागच्छेयं तदा का विप्रतिपत्तिर्भवताम् ?' गुरुभिरुक्तं - 'यस्य यस्य धर्मस्थानस्य यो यो नियमः स स तत्र गच्छता सर्वेणाऽपि पालनीयः । यथा भवतां देवालयं (Church) योऽपि प्रविशति स तन्नियमानुसारं शिरस्त्रं (Hat) निष्कासयत्येव । एवमकुर्वाणं तु किं भवांस्तत्स्थानान्त: प्रवेशयेद् वा ?' अधिकारिणोक्तं - ‘सत्यं, किन्त्वहं कदाचित् सशिरस्त्रमपि जनं देवालये प्रवेष्टुमनुमन्येय ।' गुरुभिः कथितं - 'तदपि सत्यं, किन्तु यः सभ्यो मनुष्यः स्यात् स तु तत्तद्धर्मस्थानस्य मर्यादां पालयेदेव ।' तदा सस्मितं ‘भवतां कथनं सत्यमेवे 'ति वदन् सोऽधिकारी पादत्रे अपसार्यैवाऽन्तः प्रविष्टः । एतेन प्रसङ्गेन ज्ञायते सूरिसम्राजां निर्भीकता । यः कोऽपि प्रसङ्गो भवेत् कीदृशोऽपि जन आगच्छेत् ते कदाऽपि भयं वृथाऽहोभावं वा नैवाऽनुभूतवन्तः । सहैवौचित्यं सद्व्यवहारं चाऽपि नैव त्यक्तवन्तः । ( वयं तु स्वातन्त्र्योत्तरं वर्षषष्ट्यनन्तरमपि श्वेतवर्णं दृष्ट्वाऽहोभावं स्वस्मिश्च हीनभावमनुभवामस्तदत्र चिन्त्यम् ।) एवं च गुरुवर्याणां जीवनेऽगणितास्तादृशाः प्रसङ्गा घटिता येषु तेषां दीर्घदर्शिताया निर्भीकतायाश्च कारणत्वात् समाजस्य धर्मशासनस्य च पुष्कलो लाभः सञ्जातो नैकाश्च विपत्तयो निवारिताः । अस्माकं जीवनेऽपि तादृशा गुणा: प्रकटीभवेयुरित्याशया विरमामः । Jain Education International शासनसम्राजां दीर्घदर्शिता निर्भीकता च १५५ www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202