Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गृहीत्वा मार्गयितुं निर्गच्छेत् तर्हि कदाचिदेकं वा द्वौ वा महापुरुषौ प्राप्नुयात् । अस्मिन् क्षणे मे उपकारिणो गुरुवर्यपूज्यपादश्रीसूर्योदयसूरीश्वराः स्मृतिपथमायान्ति । तेषां जीवने एतादृशी सात्त्विकता सन्दृश्यते। ते तु परमनिरीहाः, अतो न स्वमुखात् किमपि वदन्ति ते, किन्तु बहुभ्योऽन्येभ्यः सकाशात् श्रुतं यत्-पूज्यपादप्रभावात् तेषां दर्शनमात्रेण चैव भूतपिशाचादयोऽपि पीडामवाप्य दूरत एव नश्यन्ति, इति । अन्यथाऽद्य सर्वत्र महत्त्वाकाङ्क्षा - दम्भ-प्रपञ्चादिकस्यैव साम्राज्यं प्रवर्तते, तथा विकारा एव दरीदृश्यन्ते । तत एव देशे समाजे च सर्वत्राऽहर्निशं विविधधर्मानुष्ठानानि होमयज्ञादयः प्रभुभक्तिः प्रभुपूजाश्च भवन्ति तथाऽपि न जनानां मुखे प्रसन्नता शान्तिः सौख्यं च दृश्यन्ते, न चाऽऽत्मिकोत्थानस्य दिशं प्रति रुचिरपि दृश्यते । एकदैकः साधकः पुरुषो मया पृष्टः भो ! विद्याप्राप्त्यर्थं किं कोऽपि मन्त्रः किमपि चौषधमस्ति ?
तेन साधकेन कथितम् नैष्ठिकब्रह्मचर्यस्य पालनं न केवलं विद्यासिद्धीनामपि तु सर्वसिद्धीनां निदानमस्ति । तदेव मन्त्र औषधं चाऽस्ति ।
-
-
मयोक्तम् - भो ! वयं तु साधवः, अतो ब्रह्मचारिण एव स्मः ।
साधकेन गदितम् - महाराज ! भवतां कथनं सत्यं, किन्तु नैष्ठिकब्रह्मचर्यं नाम - केवलं दुराचारो न करणीयः, इति न; अपि तु "ब्रह्मणि चरन्ति ते ब्रह्मचारिणः " । ब्रह्मणि अर्थादात्मनि रमणमिति ब्रह्मचर्यम् । पञ्चानामपीन्द्रियाणां विषयाभिलाषं विहाय निरासक्त्या निर्ममतया च वर्तनीयम् । मनसाऽपि विजातीयव्यक्तेराकर्षणाभावो वार्तारुच्यभावश्च" इति । अन्यथा यथा गृहस्याऽग्रणीजनः पूज्यजनः कथ्यते तथैव संन्यासिवेषोऽङ्गीकृतोऽतो ब्रह्मचार्युच्यते, किन्त्वेतावन्मात्रेण लब्धिसिद्धयो नोपलभ्यन्ते । सकृद् मनसाऽपि कृतं ब्रह्मचर्यखण्डनं युष्माभिराधितानां चारित्रतपोमन्त्रादीनां च पुण्यं नाशयति । अतोऽन्यत् सर्वमपि विहाय नैष्ठिकब्रह्मचर्यपालनं करोतु भवान् । सर्वा अपि लब्धयः सिद्धयश्च भवतः स्वागतार्थं सम्मुखमागमिष्यन्तीति ।
Jain Education International
बन्धो ! एतन्निशम्य मनसि विचारा उत्पन्नाः । अद्य सर्वतो मोहस्य विकृतेश्चैव साम्राज्यं प्रवर्तते । यावद् धर्मस्थानकेष्वपि सदाचाराणां नीतिमत्ताया गुणवत्तायाः सत्यनिष्ठायाः सात्त्विकतायाश्च ह्रासस्तथा धनस्य सत्ताया बाह्याडम्बरस्य बाह्यधर्मस्य चैवं मोहस्यैव सर्वोपरित्वं दरीदृश्यते । धर्मस्थानकानि धर्मपुरुषाश्चैव समाजस्य देशस्य चैवं समग्रविश्वस्योत्थाननिमित्तीभूता आदर्शरूपाश्च सन्ति, किन्तु यदा तेऽपि मोहलम्पटा भवेयुस्तदा समाजस्य पतनं निश्चितमस्ति । सात्त्विकतां विना समाजस्योत्थानमशक्यम् । केवलं ज्ञानेन क्रियया तपसा धनेन सत्तया च किम् ? अस्माभिः
For Private & Personal Use Only
पत्रम्
१६३
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202