Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 200
________________ राजा मारीचः सउन्दला मारीचः राजा मारीचः राजा Jain Education International होदु । उवविसह । (सव्वे उवविसन्दि ।) भगवन् ! इमां शकुन्तलां गान्धर्वेण विवाहविधिनोपगम्य कस्यचित् कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात् प्रत्यादिशन्नपराद्धोऽस्मि महर्षिकण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वं तस्य दुहितरमवगतोऽहम् । इमां गृहीत्वा जिगमिषामि । वत्स ! शृणु, यदैवाऽप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता, तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नाऽन्यथा । स चायमङ्गुलीयकदर्शनावसानः । वत्स ! अलमात्मापराधशङ्कया । (स्वगदं) दिट्टिआ अकारणपच्चादेशी ण अज्जउत्तो । ण क्खु सत्तं अत्ताणं सुमरेमि | अहवा पत्तो मए स हि सावो विरहसुण्णहिअआए ण विदिदो । अदो सहीहिं संदिट्ठ म्हि भत्तुणो अंगुलीअअं दंसइदव्वं त्ति । वत्से ! इदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । वत्स ! त्वयाऽभिनन्दितः शाकुन्तलेय: ? भगवन् ! अत्र खलु मे वंशप्रतिष्ठा । ( इति बालं हस्तेन गृह्णाति ।) वत्स ! त्वमपि स्वापत्यदारसहितस्ते राजधानीं प्रतिष्ठस्व । यदाज्ञापयति भगवन् । ( सपुत्रपत्नीको गच्छति ।) । ॥ इदि सउन्दलाचरियं ॥ For Private & Personal Use Only. २९५ / १४, पट्टीरामपुरम् खेकड़ा-२०११०१(बागपत) उ.प्र. १८९ www.jainelibrary.org M कथा

Loading...

Page Navigation
1 ... 198 199 200 201 202