Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 173
________________ 'किन्तु स्फटिकवन्निर्मलं मनः, इति प्रथमोऽर्थः । एवं ब्रह्मचर्यस्य परमविशुद्धिः, मनसि विकारलेशोऽपि न, इति द्वितीयोऽर्थः । पूज्यपादानां चित्ते यावतीच्छा निष्ठा चाऽऽसीत् ततोऽपि विशेषतया सात्त्विकताऽऽसीत् । तत एव ते सर्वेष्वपि कार्येषु सिद्धि प्राप्नुवन्त आसन् । तदानीन्तने काले सर्वत्र तेषां पूज्यपादानां प्रभुत्वमासीत् । सर्वेऽपि सङ्घमान्यजना नगरश्रेष्ठिनस्तेषामाज्ञायां प्रवर्तन्ते स्म । अतः स्वेच्छानुरूपं यत्किमपि कर्तुं ते समर्था आसन्, तथाऽपि ते स्वकीयं स्वार्थं विहाय जिनशासनमेव केन्द्रीकृत्य सर्वमपि कार्यं कृतवन्तः । प्रसिद्ध्यर्थं कुत्रापि कदाचिदपि च तैर्मायाप्रपञ्चादिकस्याऽऽश्रयः कृत इति न श्रूयते । न च कदाचिदपि स्वक्षति गोपयितुं प्रयत्नः कृतः, तथैव च न स्वशक्ति प्रदर्शयितुमपि त्वरा कृता । अद्य तु विपरीता स्थितिविद्यते - मायाप्रपञ्चादिद्वारेणाऽहनिशं स्वक्षति स्वदोषं च पिधातुं तथा स्वदोषः स्वक्षतिश्चाऽपि गुणः शक्तिश्चाऽस्तीति स्थापयितुं प्रयत्नो विधीयते जनैः । यत्रैतादृशी सात्त्विकता विद्यते तत्र सर्वसिद्धयः सम्मुखमागच्छन्ति । देवा अपि स्वाधीनीभूय साहाय्यं विदधति । दुर्दैवमपि सौभाग्यं भवति । रिपवोऽपि मित्राणि भवन्ति । एवं सात्त्विकवृत्तिवान् यत् करोति, वाञ्छति, वदति, चिन्तयति च तत्सर्वमपि विना विघ्नं सिद्ध्यति । अशुभवृत्तयो दुष्टजनाश्चाऽपि तं जनं पीडयितुं न शक्नुवन्ति । यतः सात्त्विकजनानां देहात् तेजःपुञ्जो निर्गच्छति। जनस्य यावती बलिष्ठा सात्त्विकता तावती तेजःशक्तिरधिका भवति । तस्याऽऽभामण्डले न केपि दुष्टजना हिंसकप्राणिनश्च प्रवेष्टुमर्हन्ति,न च हानिमपि ते कुर्वन्ति । किन्तु सर्वेऽपि अनुकूला भवन्ति । पूज्यपादश्रीसोमप्रभसूरिभिः कथितम् तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥ (सूक्तिमुक्तावली-४०) एवं तन्त्र-मन्त्र-विद्या-औषधादीनां विपरीतशक्तिप्रयोगाश्चाऽपि व्यर्था भवन्ति । पूज्यपादानां जीवने एतादृशी सात्त्विकताऽऽसीत् । अत एव तन्नामस्मरणेन दर्शनमात्रेणैव च दुष्टवृत्तयो नश्यन्ति । तस्मिन् काले बहवो ज्ञानिनस्तपस्विनश्चारित्रवन्तश्च सूरीश्वरा आसन्, किन्तु तेषु सर्वेष्वपि पूज्यपादा एव सर्वोपरित्वं भजन्त आसन् । यतस्ते सरला नैष्ठिकब्रह्मचारिणश्चाऽऽसन् । अत एव ते एतादृशं महदविस्मरणीयं च कार्यमपि कर्तुं समर्था जाताः । बन्धो ! अद्यैतादृश्याः सरलताया दर्शनमपि सुदुर्लभमस्ति । यदि यः कश्चिद् दीपं शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202