Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 180
________________ ग्रन्थसमीक्षा 'विद्योत्तमाकालिदासीयम्' समीक्षकः राजेशकुमार मिश्रः रचयिता - डो. आचार्य रामकिशोरमिश्रः प्रकाशकः - डा. रामकिशोर मिश्रः प्राप्तिस्थानम् - २९५/१४,पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१ मूल्यम् - २०० रूप्यकाणि विद्योत्तमाकालिदासीयमेकं महाकाव्यमस्ति । अस्य रचयिता कविवर्यः साहित्यव्याकरणाचार्यः, एम्.ए., पीएच्.डी., महामनामालवीयमहाविद्यालयस्य पूर्वोपाचार्यः संस्कृतविभागाध्यक्षश्च वर्तते । कविरयं प्रायः ३६ संस्कृतरचनानां सर्जनत्वेन नूनं साहित्यदिग्गजोऽस्ति । अस्य महाकाव्ये एकविंशतिसर्गाः सन्ति । रचनायां पदे पदे महाकाव्यस्य सर्वे गुणा दृष्टिपथमायान्ति । कृतिरेषा मातापितृचरणेभ्यः समर्पिता वर्तते । यथा __ओ३ङ्कारमिश्रसम्भूतो होतीलालः' पिता मम ।। देवी प्रातःस्मरणीया मातृत्वेन कलावती ॥ ययोरंशेन मे देहे रक्तं वहत्यहर्निशम् ।। ताभ्यां दिवङ्गतात्मभ्यां महाकाव्यं समर्पितम् ॥ रचनायाः कथानकं कालिदासविद्योत्तमयोश्चरितमस्ति । कालिदासविद्योत्तमयोः सङ्क्षिप्ता कथा कविना स्वकल्पनया विस्तृता कृता । अस्य प्रथमसर्गे सन्ततिकामना, द्वितीयसर्गे विद्योत्तमाजन्म, तृतीयसर्गे विद्योत्तमाप्रतिज्ञा, चतुर्थसर्गे शास्त्रार्थः, पञ्चमसर्गे मातुः पुत्रीविवाहचिन्ता, षष्ठसर्गे प्रतारणयोजना, सप्तमे सर्गे मौनशास्त्रार्थः, अष्टमसर्गे कालिदासविवाहः, नवमसर्गे मिथुनमेलनशर्वरी, दशमसर्गे गुरुशिष्यवार्ता, एकादशसर्गे पुत्रीविषये पितुश्चिन्ता, द्वादशसर्गे पत्नी प्राप्तुं कालिदासस्य प्रयत्नः, त्रयोदशसर्गे कालिदासं कवीकर्तुं विद्योत्तमायाः प्रयत्नः, चतुर्दशसर्गे कालिदासस्य कवित्वम्, पञ्चदशसर्गे पत्नीत्यागपत्रम्, षोडशसर्गे काव्यचर्चा, सप्तदशसर्गे प्रेमचर्चा, अष्टादशसर्गे वात्सल्यम्, एकोनविंशसर्गे गृहचर्चा, विशसर्गे दाम्पत्यम्, एकविंशसर्गे च बालशिक्षणम्। कविः शिवभक्तोऽस्ति । तेनाऽष्टमूर्तिस्वरूपः शिवः स्मृतः । यथा प्रथमसर्गे प्रथमोऽयं श्लोकः ग्रन्थसमीक्षा / १६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202