Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कुलगौरवम् मुनित्रैलोक्यमण्डनविजयः
I
वाक्यमिदं समस्ति आर्यभद्रबाहुविरचिते श्रीकल्पसूत्राख्ये आगमग्रन्थे प्रभुमहावीर - प्रव्रज्याग्रहणवर्णनाधिकारे प्रविव्रजिषुं प्रभुं प्रति धात्र्योक्तेषु हितशिक्षावचनेषु । अल्पाक्षराऽपीयं हितशिक्षा प्रविव्रजिषुभिर्मुमुक्षुभिर्नितान्तं मननीयाऽस्ति । तत्राऽपीदं वाक्यं स्वकीयमनन्यं महत्त्वं दधाति । यतोऽनेनैकेनैव वाक्येन सा जिनधात्री स्मारितवत्यस्ति ऋषभादितीर्थकृतां भरतादिराजराजेश्वराणां च तत्पूर्वजानां यशउज्ज्वलपरम्पराम्; उज्जागरितवत्यस्ति-कुलावतंसस्याऽऽभिजात्यसम्पन्नानां नीतीनां स्मृतिः; साक्षात्कारितवत्यस्ति चेक्ष्वाकुकुलगौरवम् । तद्गौरवमिदं यद्इक्ष्वाकुकुलीनोऽङ्गीकृतं कार्यं सकलसामर्थ्येन निर्वहेत्, गृहीतां प्रतिज्ञां स प्राणान्तेऽपि परिपालयेत्, स्वलक्ष्यं प्रत्यविचलां निष्ठां स धारयेद्, न च सङ्ग्रामे पश्चाद्गमनं मनसि चिन्तयेदपि । सङ्क्षेपेणैतदेव सा प्रोक्तवत्यस्ति यद् वर्धमानेन न जातु विस्मर्तव्यमिक्ष्वाकुकुलस्य कुलश्रेष्ठत्वं स्वदेहे प्रवहतो रक्तस्य च तत्कुलीनत्वम् ।
11
इक्खागकुलसमुप्पन्नेऽसि णं तुमं ज. (ऐक्ष्वाककुलसमुत्पन्नोऽसि नूनं त्वं जात !)
परमियं पुरातनी स्थितिः । अधुना कि केवलं कुलस्मृत्याऽऽत्मभानं सम्भवेत् ? आम्, अवश्यम् । श्रीविजयनेमिसूरिसमुदायस्थश्रमणानां (महतः पूर्वाचार्यस्य नाम्ना तत्सन्ततिसमुदायः परिचीयते इति जैनशासनव्यवस्था) कर्त्तव्यभानार्थं श्रीविजयनेमिसूरिवंशजत्वस्मरणं पर्याप्तम् । यतः केवलमनेनैव तस्याऽन्तर्जागर्ति सामुदायिकीनां शालीनतापूर्णरीतीनां स्मृति:; तत्सम्मुखं प्रत्यक्षीभवति स्वसमुदायस्य गौरवान्वितपरम्परा । सा परम्परा - यया जैनशासनाय नैके ज्ञानवन्तश्चारित्रमूर्त्तयः यस्तपस्विनः प्रभावकाश्च श्रमणाः प्रदत्ताः, यया जैनशासनस्य सर्वेषु क्षेत्रेषु महत्त्वपूर्णं योगदानं विहितम्, यस्यामुदात्तविचारसरणे: प्राधान्यमस्ति, या सर्वदा पराक्रमणे कवचीभूताऽन्तर्विक्षुब्धौ च मध्यस्थीभूता, या परम्परा च निखिलैजैनै: स्वयंस्फूर्त्या मूर्धन्यीकृताऽस्ति ।
उत्सहेऽहं तत्परम्परासत्कानां कतिपयानां पुण्यश्लोकानां श्रमणप्रवराणां ज्ञानसाधनायाः प्रकाशनार्थम् । मन्मानसे परमगुरूणां यावान् प्रभावोऽस्ति, ततोऽप्यधिकोऽस्ति तद्वंशजानां पूज्यानाम्। कारणं त्वेतदेव यद् महतः पृष्ठे जायमानः शून्यावकाशो जनसमाजेन सोढुमशक्यो
शासनसम्राड्-विशेष:
१५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202