Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 170
________________ प्रश्नस्योत्तररूपेण यदि विद्यार्थी 'विजयपद्मसूरित्वं' लिखेत् तद्यपि तस्मै पूर्णाङ्का दातव्या भवेयुस्तादृश्येतेषां ज्ञानसम्पत्तिः । कवित्ववित्तसम्पन्नानामेतेषां प्रतिनिमेषमेकं श्लोकं रचयितुं सामर्थ्यमासीत् । स्तोत्रचिन्तामणि-प्राकृतकाव्यप्रकाशादिग्रन्थैः काव्यसाहित्यं, विशेषतो भक्तिकाव्यक्षेत्रमेतैः सुपरिपुष्टम्। श्रमणोपासकेषु ज्ञानवृद्ध्यर्थमेते प्रवचनकिरणावलीदेशनाचिन्तामणि-श्रावकधर्मजागरिकादिग्रन्थान् सन्दृब्धवन्तः । श्रीविजयलावण्यसूरयः-किमेक एव पुरुषो व्याकरणं, नव्यन्यायः, जैनन्यायः, साहित्यं, व्याख्यानम् - एषु सर्वेषु क्षेत्रेष्वसाधारणं प्रभुत्वं धर्तुं शक्नुयाद् - इति प्रश्ने श्रीलावण्यसूरीणामेव नाम ग्रहीतव्यं भवेत् । किमधिकेन ? एतासु सर्वासु शाखासु मनीषिणामेतेषां तावन्महत्त्वपूर्ण योगदानं यत् प्रत्येकं शाखाया अध्ययनकर्तृणामेकः स्वप्नो भवति-अहं लावण्यसूरिभवेयमिति । नयरहस्य-नयोपदेश-न्यायसङ्ग्रह-अनेकान्तव्यवस्था-शास्त्रवार्तासमुच्चय-द्वात्रिंशद्वात्रिंशिकातिलकमञ्जरी-काव्यानुशासनादिटीकारचनानां धातुरत्नाकर-सिद्धहेमशब्दानुशासनबृहन्न्यासानुसन्धान-तत्त्वार्थत्रिसूत्रीप्रकाशिकादिग्रन्थसृष्टीनां चैतेषामेव विधातृत्वेऽपि; ग्रन्थसङ्ख्याया अत्यधिकत्वाद्, ग्रन्थानां बृहत्कायत्वात्, प्रतिपाद्यमानविषयाणां च प्राज्यत्वान्मनस्याशङ्कोद्भवति यद्, भविष्यति कदाचिदितिहासपण्डितेषु मिथ्याविवादो भविष्यति - किमेतावन्तो ग्रन्था एकेनैव लावण्यसूरिणा विरचिताः ? इति । श्रीविजयकस्तूरसूरयः-प्राकृतभाषाया अध्ययने तत्साहित्यस्य प्रणयने चैते नूनं दीपदण्डायन्ते। उपेक्षितप्रायमेतत् क्षेत्रमेते स्वपरिश्रमपीयूषेण पुलकितं कृतवन्तः । एतेषां प्राकृतविज्ञान-पाठमाला प्राकृतभाषाध्ययनक्षेत्रे एको नून आविष्कारः । पाइयविन्नाणकहापाइयविन्नाणगाहा-सिरिउसहणाहचरिय-सिरिचन्दरायचरियादिग्रन्थग्रथनेन सिरिसिरिवालकहासिरिधणवालकहा-करुणरसकदम्बकादि-ग्रन्थसम्पादनेन चैते प्राकृतसाहित्यक्षेत्रे नूतनयुगं प्रवर्तितवन्तः । श्रीविजयधर्मधुरन्धरसूरयः- 'यथा नाम तथा गुणा' इत्युक्तिं चरितार्थयन्त एते सत्यं विद्वद्धुरीणा आसन् । ज्ञानसाधनायाः सर्वोच्च शिखरमेते आरूढाः । एभिर्विरचितेभ्यो न्यायव्याकरण-साहित्यादिविषयकशताधिकग्रन्थेभ्यः कतिपयानां नामोल्लेख एवाऽस्मान् चित्रचित्रितान् कर्तुं क्षमः - सिद्धहेमसरस्वती, लक्षणार्थचन्द्रिका, लक्षणविलासः, अनेकार्थसाहस्री, नयवादः, आत्मवादः, निह्नववादः, पञ्चलक्षणीगूढार्थरहस्यं, कर्मप्रवादमीमांसा (रम्यातिरम्यैः पद्यैः कर्मशास्त्रनिरूपको ग्रन्थः), मयूरदूतम्, आर्षभीयचरितं, वज्जचरियं, समणधम्मरसायणं (प्राकृते गीतगोविन्दसमं गेयकाव्यं), अण्णुत्तिसयं, काव्यविमर्श इत्यादि । काव्यश्रीप्रियतमानामेतेषां कुलगौरवम् | १५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202