Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 159
________________ यतिपरम्परास्थानां मुनीनां (श्रीपूज्यानां ) वर्चस्वं तैः सिंहसमसत्त्वेन खण्डितं तथा संवेगिपरम्परामुज्जीवयितुं संवेगिमुनीनां सङ्ख्या वर्द्धिता । एतेषु पूज्यजनेषु परमपूज्य श्रीवृद्धिविजयस्याऽन्तेवासी शासनसम्राट् तपोगच्छपतिः श्रीनेमिसूरीश्वरमहाराज आसीत् । अस्यां शताब्द्यां जिनशासनेऽस्मिन् नैके प्रतिभावन्तः प्रभावकाश्च सूरिपुङ्गवा जाताः । यैर्धर्मशासनस्योन्नतिं विधायाऽनुपमा सेवा कृता । तेषां सर्वेषामपि सूरीणां कस्यचित् प्रदेशस्याऽवग्रह आसीत् । तस्मिन् तस्मिन् प्रदेशे तैस्तैः सूरिभिर्बहव उपकाराः कृता आसन् । ततस्तत्रस्थजनैस्तैस्तैस्ते ते सूरीश्वरा गुरुपदे स्थापिताः । एवंरीत्या यद्यपि समस्तसौराष्ट्रप्रदेशोऽस्य नेमिसूरिभगवतोऽवग्रहप्रदेश आसीत्; किन्तु तेन केवलं तत्रत्यानां जैनानामुपर्येवोपकारः कृत इति न, परन्तु सर्वेषामपि जनानां जिनशासनस्य चाऽपि हितार्थमुन्नत्यर्थं च प्रयत्नो विहितः । एवं जिनशासनस्य सर्वेष्वपि विषयेषु तस्योपकार आसीत् । शासनरक्षा तीर्थरक्षा तीर्थोद्धारः शास्त्ररक्षा शास्त्रसर्जनं शास्त्रप्रकाशनमध्यापनरीतिर्व्याख्यानशैली जीवदया योगोद्वहनविधिः प्रतिष्ठापूजनविधिश्चेत्यादीनां सर्वेषामपि विषयाणां प्रवर्तनं प्रवर्धनं च विहितम् । तेन भगवता यत्कार्यं कृतं तत् सर्वमपि सफलमेव जातम्। एवं स सर्वतोमुखप्रतिभासम्पन्नः समर्थः सूरीश्वर आसीत् । स हि मनसा वचसा कायेन च शासनसमर्पित आसीत् । स्वसमुदायः शिष्याः स्वप्रतिष्ठा स्वार्थश्चेत्यादिकं सर्वमपि तस्य कृते गौणमासीत्, केवलं जिनशासनमेव प्रधानमासीत् । तत एव बहुवर्षेभ्यः पश्चादद्याऽपि तस्य सादरं स्मरणं क्रियते सर्वजनैः । - ‘शासनसम्राट् अस्माकं जनको गुरुश्च, वयं सर्वेऽपि तस्य पुत्राः शिष्याश्चे 'ति संस्कारबीजं पित्रा बाल्यकालादेव मन्मानसे आरोपितमासीत् । प्रतिदिनं तस्य प्रतिकृतेर्दर्शनमवश्यं करणीयमित्यस्माकमाचार आसीत् । यथावसरं च पितुः समीपे तस्य चरित्रमपि श्रूयते स्म, ततस्तं प्रति विशेषादरः श्रद्धा चाऽऽसीत् । तथाऽहोभावेन सह चित्ते आश्चर्यमपि सञ्जातमासीद् यत् – किं लोकव्यापारैः पराङ्मुखः कश्चिदेको मुनिरप्येतादृशं कार्यं कर्तुं शक्नोति खलु ? इति । पश्चात्तु यथा यथा बोधो वृद्धिं गतस्तथा तथा तं पूज्यं प्रति श्रद्धाऽऽदरश्चाऽपि प्रवृद्धौ । एतादृशः समर्थः सन्नपि परमनिरीहो नाऽन्यः कोऽपि सूरीशो जातोऽस्ति विंशतितमशताब्द्यामस्याम् । स मे गुरुरस्ति इत्यत एवं न लिखामि, किन्तु केवलं तस्य गुरुवर्यस्य प्रभावकप्रतिभातस्तेजोमयव्यक्तित्वतश्चाऽऽकृष्ट एव किञ्चिद् लिखामि । यथा लोहचुम्बकं लोहखण्डमाकृषति तथैवाऽस्य पूज्यस्य निःस्वार्थशासनप्रेम सङ्घचिन्ता दूरदर्शिता सङ्घटनशक्तिर्नेतृत्वशक्तिर्निर्भयता निरीहता निरभिमानता करुणा निर्व्याजवात्सल्यं सत्यनिष्ठा शासनोन्नत्यर्थं परमोत्साहश्चेत्येतादृशाः सङ्ख्यातीता गुणा मे मानसमाकृषन्ति । यदा यदैतदुरोर्विषये तज्जीवने घटितानां घटनानां विषये, तत्तत्काले तस्याऽभिगमविषये १४८ शासनसम्राड् - विशेष: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202