Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शासनसम्राट मुनिधर्मकीर्तिविजयः
अप्रतिहतानन्तज्ञानदर्शनधारिणः श्रीत्रैशलेयप्रभोरस्मिन् जैनधर्मशासननभसि पुष्पदन्तनिभा बहवो महापुरुषा जाताः । यैरप्रतिमप्रतिभया ज्ञानपटुतया विशुद्धसंयमाचरणेन चाऽज्ञानमिथ्यात्वरूपान्धकारं परधर्मिणामाक्रमणमपास्य श्रीमहावीरभगवत्प्रणीतं जैनधर्मशासनं सादरं सगौरवं च रक्षितं संवधितं चाऽद्यावधि । तत्र तपागच्छे सम्राट अकब्बर'प्रतिबोधकजगद्गुरुश्रीहीरसूरीश्वरस्य पट्टपरम्परायां पण्डितश्रीसत्यविजयमुनिवरः सञ्जातः । तस्मिन् काले जिनशासने यतिपरम्परा संवेगिपरम्परा चेति द्वे परम्परे विद्यमाने आस्ताम् । साध्वाचारस्य सम्पूर्णतया पालनं यत्र वर्तते सा संवेगिपरम्परोच्यते । यत्र लेशतः साध्वाचारस्य पालनं वर्तते सा यतिपरम्परोच्यते । तत्र संवेगिपरम्परायां किञ्चित् शैथिल्यं प्रविष्टमासीत् । मुनीश्वरसत्यविजयेन स्वेच्छया कठोरनियमानङ्गीकृत्य यतिपरम्परास्थानां स्वपरम्परास्थानां च शिथिलाचारिमुनीनामुपसर्गेष्वपि संवेगिमार्गः पुनः प्रस्थापितः। अन्येऽपि बहवो मुनिवरास्तस्मिन् मार्गे सम्मीलिताः ।
तत्पश्चात्तस्यैव पट्टपरम्परायां जातैः 'बुटेरायजी-मूलचन्द्रजी-वृद्धिचन्द्रजीआत्मारामजी'महाराजैः संवेगिपरम्परां प्रवद्धितुं विशेषाः प्रयत्नाः कृताः । ते सर्वेऽपि पूज्यजनाः स्थानकवासिसम्प्रदायस्था आसन् । किन्तु शास्त्राभ्यासेन यदा सत्यं ज्ञातं तदा ते सर्वेऽपि मूर्तिपूजकसम्प्रदायमूररीकर्तुं मुखवस्त्रिकाबन्धनं विहाय पञ्चनद(पञ्जाब)प्रदेशतो निर्गत्य गूर्जरदेशे समागताः । अत्र पुनः संवेगिमार्गानुसारिणी प्रव्रज्या स्वीकृता । पश्चाद् गूर्जरदेशे प्रवर्तमानं
१. अस्मिन् सम्प्रदाये सर्वदा मुखे मुखवस्त्रिकाबन्धनविधानं मूर्तिपूजानिषेधश्च वर्तते ।
शासनसम्राट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202