Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 148
________________ जङ्गमयुगप्रधानः (१) फलोधिवास्तव्यः सुश्राद्धः श्रीसम्पतलालकोचर: प्रतिवर्षमिव तस्मिन् वर्षेऽपि पेथापुरनगरं गतवानासीत् । तत्र चाऽऽचार्य श्रीबुद्धिसागरसूरिवरो विराजमान आसीत् । अवसरं प्राप्य स श्राद्धो गुरुवरं पृष्टवान् - 'भगवन् ! कोऽस्मिन् युगे युगप्रधान : ?' इति । तदा- 'किं भवान् वचनरूपं प्रत्युत्तरमपेक्षत उताऽनुभवरूपम् ?' इति गुरुः पृष्टवान् । अनुभवनमेव श्रेयस्करमिति विचार्य स तदर्थं पूज्याय निवेदितवान् । गुरुवरोंऽपि तस्य सविधितपः किञ्चिद् निर्दिष्टवान् । उपवासत्रयं तस्य करणीयमासीत् । दीपावलिपर्वणस्तानि पावनानि दिनान्यासन् । श्राद्धोऽपि स श्रद्धया निष्ठया च तपोजपाद्याराधनायां प्रवृत्तोऽभूत् । त्रीणि दिनानि व्यतीतानि । नूतनवर्षस्य मङ्गलमयः प्रभातकाल आसीत् । सोऽपि ध्यानस्थः सन् जापलीन आसीत् तदा सहसैव सोऽपवरकः प्रकाशितोऽभूत् । तेजस्विनं कञ्चित् साधुपुरुषं स दृष्टवान् । श्रद्धया च स तं नमस्कृतवान् । सर्वं च तिरोहितं जातम् । स साधुपुरुष आसीत् शासनसम्राट् श्रीविजयनेमिसूरिमहाराजः । प्रातश्च सर्वं कार्यं समाप्य स गुरुभगवतः समक्षमुपस्थितोऽभूत् । गुरुभगवता च पृष्टः स स्वानुभवं वर्णितवान् । तदा पूज्याचार्यवर्य उक्तवान् - 'मतभेदा यद्यप्यस्माकं मध्ये विद्यन्त एव किन्तु भवान् यं दृष्टवानस्ति स एवाऽस्य युगस्य श्रेष्ठो महापुरुषोऽस्ति । नाऽस्त्यत्र शङ्कालेशोऽपि' इति । घटनैषा वि.सं. १९८१ तमवर्षे घटिता । (२) पूज्यस्तदा बोटादनगरे स्थित आसीत् । महम्मदछेलाभिधः कश्चिदैन्द्रजालिकः पूज्यस्य समक्षमागतवान् । 'एष च साधुजनान् स्वकीयया विद्यया यदा कदाचित् पीडयत्यपि ' इति पूज्येन श्रुतमासीत् । अतः पूज्यस्तमुक्तवान् 'छेल ! अतः परं साधुजनान् मा पीडयतु' इति । पश्चात् तमेकस्मिन्नपवरके नीतवान् सहैकः श्रावकोऽप्यासीत् । तं निर्दिश्य त्रीणि काष्ठपीठानि पूज्येनोपर्युपरि स्थापितानि । पश्चात् पूज्यः स्वयमुपर्युपविष्टवान् । छेलं प्रत्युवाच'एतेभ्यः काष्ठपीठेभ्य उपरितनं निष्कासयतु' इति । छेलस्तथा कृतवान् । कृत्वा च पूज्योपरि दृष्टिं कृतवान् । पूज्यस्तु तत्राऽऽकाश एव निराधार उपविष्ट आसीत् । तद् दृष्ट्वा स दिङ्मूढ इव जातः । एतत्तु तदर्थं कल्पनातीतमासीत् । स हि तत्र प्रतिज्ञातवान् यद् 'न कदाऽपि साधुजनमहं पीडयिष्यामि' इति । एतद् यदा घटितं तदा वि.सं. १९६६तमवर्षं प्रवर्तमानमासीत् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः १३७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202