Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आदर्शो ऽनुशासकः
पूज्यस्याऽनुशासनपद्धतिरद्वितीयाऽऽसीत् । स्वशिष्याणां योगक्षेमार्थं सर्वप्रकारेण स प्रयतते स्म । उपाश्रयस्य मध्यभाग एव पूज्यः सदोपविशति स्म येन परित उपविष्टानां शिष्याणामध्ययनाध्यापनक्रियादिष्ववधानं स्यात् ।
शिष्याणामध्ययनविषये पूज्योऽत्यन्तं जागरूकतया वर्तते स्म । पूज्यः स्वयमपि तान् पाठयति स्म, पण्डिताश्चाऽपि केचन पूज्येन सहैव वसन्तः पाठयन्ति स्म । विहरणं वा स्यात् स्थैर्यं वाऽध्ययनाध्यापनकार्यं त्वविरतं प्रवर्तते स्मैव । विहारकाले तु ग्रामान्तरं प्राप्य कुत्रचिद् वृक्षस्य छायायामुपविश्य पूज्यः शिष्यान् पाठयति स्म । तदा च कस्यचित् पुरातनकालीनस्य गुरुकुलस्याऽऽश्रमस्य वा स्मरणं भवति स्म । तादृशं दृश्यं पश्यन्तो जनाः स्वयं धन्यत्वमनुभवन्ति स्म । अध्यापनकाले तु पूज्यस्तथैकाग्रो भवति स्म यद् यः कोऽपि श्रावको वा सङ्घो वाऽप्यागच्छेत् तथाऽपि न तत्र दृष्टिमपि दद्यात् । सर्वेऽपि चाऽऽगन्तुकाः पाठं यावच्छान्तमुपविश्य पूज्यस्य कठोरशिक्षणपद्धतिमास्वादयन्ति स्म ।
न केवलं ज्ञानार्जनेऽपि तु चारित्रस्य परिशुद्धपालनेऽपि पूज्यस्याऽऽग्रह आसीत् । कमपि प्रमादग्रस्तं दृष्ट्वा पूज्योऽनुक्षणमेव तमनुशास्ति स्म - 'भोः ! सम्यक् श्रमं कुरुध्वम् । यदि चारित्रपालने पठने च श्रमं नैव करिष्यथ तर्हि श्राद्धेभ्यो गृहीताया भिक्षाया अजीर्णं भविष्यति । तदृणप्रत्यर्पणाय च भवान्तरे कष्टकरं पशुजन्म प्राप्स्यथ, अतः सम्यक् पठत सावधानं च पठत' इति ।
एतादृशस्याऽनुशासनस्य फलरूपेण जैनसङ्खेन चारित्रसम्पन्ना ज्ञानविभूषिता अष्टावाचार्या अन्ये चाऽनेके ज्ञानिनस्तपस्विनः साधवः प्राप्ताः ।
Jain Education International
For Private & Personal Use Only
चित्रमयो विजयनेमिसूरि : १३५
www.jainelibrary.org

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202