Book Title: Meghdoot Khandana Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ 42 अनुसन्धान ३२ बकारश्च कान्ताबौ तौ विद्यते यस्मिन्निति कान्ताबी । ईदृश: र: रकारो यस्य नाम्नि स कान्ताबिर: तस्य सम्बोधनं हे कान्ताबिर ! हे अकबर ! । ह: पादपूरणे । अथवा हकारयुक्तो यो गुरुः स हगुरुः । ततः हगुरुतः श्रीहीरविजयगुरुतो णो ज्ञानं आश्रवादिविरमणरूपं यस्य । "णः प्रकटे नि:फले च प्रस्तुते ज्ञानबन्धयो"रिति सुधाकलशवाक्यात् । सः । तस्य सं. हे [हागुरुण ! अथवा हः ईश्वरः गुरुर्ब्रहस्पतिः । तद्वत् णो ज्ञानं यस्य स तथैव । "आत्मीयः स्वः स्वकीयश्चे"ति वचनात् .. अस्वा अनात्मीयत्वात् वैरिणस्तेषां आधिं मानसी व्यथां करोतीति, अथवा तेषां आधिर्मानसी व्यथा कारा बन्दिग्रहं(गृह)च यस्मात् सः । तस्य सम्बोधनं हे अस्वाधिकार ! अथवा न स्वेन द्रव्येण स्वत आत्मतो वा अधिकं आरं अरिसमूहो यस्य स तथैव । "शं श्रेयसि सुखेऽव्यय" इति सुधाकलशवचनात्, शानि मङ्गलानि । "शं शुभे" इति हैमवाक्यात् वा आप्नोतीति अचि तस्य सं. हे शाप ! । हे इन ! हे स्वामिन् !। कस्य ?, भर्तुः देशाधिपतेः । अथवा भर्ता देशादीनां अधिभूः तस्य मध्ये इनः सूर्यः प्रतापोदग्रत्वात् । चक्रेण-सेनया ई लक्ष्मीस्तस्या जनका उत्पादकाः तनयाः पुत्रा यस्य सः । तस्य सं० हे चक्रेजनकतनय ! | अः कृष्णस्तद्वत् ता लक्ष्मीर्यस्य स । तस्य सं. हे अत ! । स्निग्धानां मित्राणां छाया शोभा यस्मात् सः। तस्य सं० हे स्निग्धच्छाय ! । त्वं पुण्योदकेषु दानादिसुकृतजलेषु वसति रात्रि यावत् । 'कालाध्वनोनॆरन्तर्ये द्वितीया' । त्वं न न अस्नाः । 'द्वौ नौ प्रकृत्यर्थं सूचयत' इति न्यायात् अस्नाः स्नानं कृतवानित्यर्थः । त्वं किंविशिष्टः ?, को ब्रह्मा सकलकार्यकर्तृत्वात् । 'चिती संज्ञाने', चेतयती[तिक्विपि चित् । पुनः किं विशिष्टः ?, 'मदी हर्षे', क्तप्रत्यये मत्त इति सिद्धम् । प्र-प्रकर्षेण मत्त:हर्षितः प्रमत्तः । "मत्ता हर्षभरात्सुखं सुरेन्द्रा" इति वचनान्मत्तशब्दः क्षीबतावाचकोऽपि न दुष्टः । पुन: किंविशिष्टः ?, "महावुत्सवतो(ते)जसी" इति वाक्यात् महस्तेजोऽस्याऽस्तीति मही, अंशुमत्त्वात् सूर्यः । “मास्तु मासनिशाकरे" इति वाक्यात् माश्चन्द्रः । अस्तं प्रति गमितौ प्रापितौ महि-मासौ प्रतापसौम्याधिक्यात् सूर्या-चन्द्रमसौ येन सः अस्तङ्गमितमहिमाः । पुनः किंविशि० ?, वर्ष भरतक्षेत्रं तस्य भोग: पालनमस्यास्तीति वर्षभोगी । "भोगः सुराजे वेश्याभृतौ सुखे" ॥३८॥धनेऽहिकायफणयोः पालनाभ्यवहारयोः ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50